Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 389
________________ ३३२ क्षोरतरङ्गियां ३०१. कर्तृ करणार्थे । कर्तुः सम्बधिन्यर्थे करणवाचिनो यथादर्शनं णिज भवति, कत करणयोरर्थे वा । पालानेन बध्नाति -पालानयति हस्तिनम् । दात्रेण लुनाति-दात्रयति व्रीहीन्, छन्दसोपसान्त्व यति-उपच्छन्दयति । वारिणा सिञ्चति- वारयति । प्रियैः सलीलं ५ करवारिवारितः,' हस्तेनापनयति'-अपहस्तयति । तिलकेन मण्डयति - तिलकयति इयं सूक्तिरचना। ३०२. चित्र चैत्रस्य करणे । चित्रयति, वैचित्र्यं संपादयतीत्यर्थः । विचित्रितम्, विचित्रणा चित्रस्यालेख्यस्य करण इति दौर्गाः ॥३५५।। ३०३. कदाचिद्दर्शने । स एव चित्रशब्दः कदाचिद्दर्शने आकस्मिको१० त्पत्तौ चुरादिः । चित्रयति, अद्भतम्पश्यतीत्यर्थः । यथा चित्रङ पाश्चर्ये, क्यच, नमोवरिवश्चित्रङः (३।१।१६) इति-चित्रीयते । चन्द्रः कदाचिदिति धातुमत्त्वाऽनदन्तत्त्वान्नापाठीत् । . ____३०४. अंश समाघाते । समाघातो विभाजनम् । अंशयति चन्द्रो दन्त्यान्तमाह- अंसयति, मयूरव्यंसकः ॥३५६।।। ३०५. वटि विभाजने । वण्टयति, भ्वादौ (१।१७४ नन्दिमते) वण्टति ॥३५७॥ ३०६. लजि प्रकाशने । लजयति । भासार्थोऽपि दृष्टः (१०। १९७) भ्वादौ लज लजि भर्त्सने (१।१५१) लञ्जयति हेतौ ॥३५८। ३०७. मिश्र सम्पर्चने । सम्पर्चनं श्लेषः। मिश्रयति 'मिश्रोऽचि' २० (द्र० ३।१।१३४) ॥३५॥ ___३०८. संग्राम युद्धे । संग्रामयति', संग्रामयित्त्वा । सिसंग्रामयिषति, असंग्रामयत् । संग्रामोऽचि (द्र० ३।१।१३४) । पूर्वेण (१०।२९७) सिद्धे ग्रामयतेरेव सोपसर्गान् नियमार्थं सूत्रम् ॥३६०॥ १. 'वारितः' कोशपाठः । अनुपलब्धमूलमिदम् । २. 'हस्तेनाक्षिपति' पाठा० । ३. कैयटोऽनुदात्तेत्त्वमाह (प्रदीप ३।१।१२) । मैत्रेयोऽप्यात्मनेपदमुदाजहार । महाभाष्ये 'अवश्यं संग्रामयतेः सोपसर्गादुत्पत्तिर्वक्तव्या-असङ्ग्रामयत शूर इत्येवमर्थम्' । ३।१।१२। अत्रात्मनेपदनिर्देशात् 'संग्रामयति' इति चिन्त्यम् ।

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444