Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 392
________________ चुरादिगणः (१०) ३३५ पवनो वीजयन्नाशा ममाशामुञ्चुलुम्पति.॥४॥' तावत्खरः प्रखरमुल्ललयाञ्चकार (शिशुपालवध ५।७) । भूवादिनवगणोक्ताः स्वार्थे णिजन्ता अपि भवन्ति, चुरादिपाठस्तु निदर्शनार्थ इत्येके। राज्यमकारयत्-(रामा० युद्ध १२८।१०५) वाहयति, वाचयति, भेदयति कृत्यम्, रञ्जयति वस्त्रम्, तापयति ५ घातयति । आह च निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थ णिजिष्यते। हेत्वर्थानुप्रवेशोऽपि, बुद्ध्यारोपाण्णिचं विना ॥ जजान गर्भ महिमानमिन्द्रः (अथर्व० ३।१०।१२) अजीजनदित्यर्थः । षड्भिर्हलैः कृषति (द्र० ३।१।२६ भाष्ये)। . वान्ति पर्णशुषो वाताः वान्ति पर्णशुचोऽपरे । वान्ति पर्णरहोऽप्यन्ये, ततो देवः प्रवर्षति । अन्ये तु प्रातिपदिकाद् धात्वर्थे (१०।२९६) इत्येव सिद्धे सूत्रमूत्र-छिद्रान्धदण्डादय (१०।३१०, ३११, ३१२) उदाहरणार्थं निदशिता इति व्याख्यन् तेन पर्ण हरितीभावे, अघ पापे, स्कन्ध समाहारे, १५ पक्ष परिग्रहे, तसि अलंकारे, ऊष छुरणे, क्षप प्रेरणे-क्षपयति, क्षपा, १. भोजकृतशृङ्गारप्रकाशस्था इमे श्लोकाः । यदाह पुरुषकारकृत् 'शृङ्गारप्रकाशे तु 'मिलन्त्याशासु जीमूताः इत्यपठित धातुषु मिलतिः प्रदर्शितः (पृष्ठ १०६)। . २: 'णिजुच्यते' वाक्यपदीये (३।७।६०) पाठः । ३. अत्र ७।४।६५ सूत्रस्थं भाष्यं तदीयं प्रदीपं चानुसन्धेयम् । ४. 'वातास्ततः' पाठान्तरं दशपाधुणादिवृत्तौ ८।४०॥ ५. 'ततः पर्णरुहो वान्ति' पाठा० दश० उणादिवृत्तौ ८।४०॥ ६. श्लोकोऽयमुज्ज्वलदत्तेनाप्युणादिवृत्तावुद्धृतः (पृष्ठ ६६)। . ७. यथा पुरुषकारवचनं (पृष्ठ ६५) तथाऽयं व्याख्याता भीमसेनः प्रती- २५ यते । तेन काचिद्धातुवृत्तिरपि विहितेति प्रतीयते । ८. अत्र पुरुषकार: (पृष्ठ ६५) देवराजयज्वकृता निघण्टुटीका (पृष्ठ ४३, १०६) च द्रष्टव्या।

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444