________________
चुरादिगणः (१०)
३३५ पवनो वीजयन्नाशा ममाशामुञ्चुलुम्पति.॥४॥'
तावत्खरः प्रखरमुल्ललयाञ्चकार (शिशुपालवध ५।७) । भूवादिनवगणोक्ताः स्वार्थे णिजन्ता अपि भवन्ति, चुरादिपाठस्तु निदर्शनार्थ इत्येके। राज्यमकारयत्-(रामा० युद्ध १२८।१०५) वाहयति, वाचयति, भेदयति कृत्यम्, रञ्जयति वस्त्रम्, तापयति ५ घातयति । आह च
निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थ णिजिष्यते।
हेत्वर्थानुप्रवेशोऽपि, बुद्ध्यारोपाण्णिचं विना ॥ जजान गर्भ महिमानमिन्द्रः (अथर्व० ३।१०।१२) अजीजनदित्यर्थः । षड्भिर्हलैः कृषति (द्र० ३।१।२६ भाष्ये)। .
वान्ति पर्णशुषो वाताः वान्ति पर्णशुचोऽपरे ।
वान्ति पर्णरहोऽप्यन्ये, ततो देवः प्रवर्षति । अन्ये तु प्रातिपदिकाद् धात्वर्थे (१०।२९६) इत्येव सिद्धे सूत्रमूत्र-छिद्रान्धदण्डादय (१०।३१०, ३११, ३१२) उदाहरणार्थं निदशिता इति व्याख्यन् तेन पर्ण हरितीभावे, अघ पापे, स्कन्ध समाहारे, १५ पक्ष परिग्रहे, तसि अलंकारे, ऊष छुरणे, क्षप प्रेरणे-क्षपयति, क्षपा,
१. भोजकृतशृङ्गारप्रकाशस्था इमे श्लोकाः । यदाह पुरुषकारकृत् 'शृङ्गारप्रकाशे तु 'मिलन्त्याशासु जीमूताः इत्यपठित धातुषु मिलतिः प्रदर्शितः (पृष्ठ १०६)। .
२: 'णिजुच्यते' वाक्यपदीये (३।७।६०) पाठः । ३. अत्र ७।४।६५ सूत्रस्थं भाष्यं तदीयं प्रदीपं चानुसन्धेयम् । ४. 'वातास्ततः' पाठान्तरं दशपाधुणादिवृत्तौ ८।४०॥ ५. 'ततः पर्णरुहो वान्ति' पाठा० दश० उणादिवृत्तौ ८।४०॥ ६. श्लोकोऽयमुज्ज्वलदत्तेनाप्युणादिवृत्तावुद्धृतः (पृष्ठ ६६)। .
७. यथा पुरुषकारवचनं (पृष्ठ ६५) तथाऽयं व्याख्याता भीमसेनः प्रती- २५ यते । तेन काचिद्धातुवृत्तिरपि विहितेति प्रतीयते ।
८. अत्र पुरुषकार: (पृष्ठ ६५) देवराजयज्वकृता निघण्टुटीका (पृष्ठ ४३, १०६) च द्रष्टव्या।