________________
३३६
क्षीरतरङ्गियां
स्फुट प्रकटभावे-स्फुटयति, तथा तडित् खचयतीवाशः । पांशुदिशां मुखमतुत्थयदुत्थितोऽद्रेः (शिशुपालवध ५।११) ।
चुरादिणिचो बहुलं निदर्शनं वेत्यपरे । तेन पक्षे चोरति, चिन्ततीत्यादि सिद्धम् । धातूनामर्थनिर्देशोऽयं निदर्शनार्थमिति सौनागाः । यदाहुः
क्रियावाचित्त्वमाख्यातुमेककोऽर्थो निदर्शितः। .
प्रयोगतोऽनुमातव्याः अनेकार्था हि धातवः ॥ ३२६. णिङ् अङ्गनिरसने । प्रातिपदिकार्थाद् अङ्गविक्षेपेऽर्थे णिङ् भवति । ङकारस्तङर्थः (द्र० १।३।१२) । हस्तं निरस्यते-हस्तयते, पादयते।
. . ___३२७. श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च । श्वेताश्वादीनाञ्चतुर्णां यथासंख्यं णिङ्सङ्गेश्वस्य तरस्येतस्य कस्य च लोपो भवति । श्वेताश्वमाचष्टे तेनातिकामति वा-श्वेतयते ।
अश्वतरम् - अश्वयते । गालोडितम् --गालोडयते । कालोडित इति १५ गुप्त; गालोडितस्य प्रकृतिप्रत्ययविभागालाभात् । आह्वरकम्
आह्वरयते । पारायणिका अर्थानुवृत्तिवद्.अत्रापि णिचमनुवर्तयन्तिश्वेतयति, अश्वयति, गालोडयति, आह्वरयति। .
३२८. पुच्छादिषु धात्वर्थ इति सिद्धम् । पुच्छभाण्डचीवराण णिङ् (३।१।२०) इति पुच्छादिभ्यो धात्वर्थ उदसनादौ णिङ प्रत्ययः २० सिद्धः, पाणिनिनवोक्तत्त्वात् । पुच्छमुदस्यति-उत्पुच्छयते, परिपुच्छ
यते, भाण्डानि समाचिनोति–सम्भाण्डयते । चीवरमर्जयति, परिदधाति वा- संचीवरयते भिक्षुः। एवं मुण्डादिभ्यः सत्यापपाशादिभ्योऽपि (द्र० ३।१।२१,२५) णिच् सिद्धः । नपुंसकेन निर्देशो' मङ्गलार्थः।
२५
१. अत्र पूर्व ४ पृष्ठस्था टि० ४, ५ द्रष्टव्या।
२. धातुपाठरचयितुर्भीमसेनस्य वाक्यमिदमित्याहुरिति बालमनोरमाकाराः। तच्चिन्त्यम् । नहि भीमसेनो धातुपाठकारः, किन्तर्हि ? तवृत्तिकारः । अत्र पुरुषकारवचनम् (पृष्ठ ६५) अनुसन्धेयम् ।
३. सिद्धम्' इत्यत्रेति शेषः ।