Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 393
________________ ३३६ क्षीरतरङ्गियां स्फुट प्रकटभावे-स्फुटयति, तथा तडित् खचयतीवाशः । पांशुदिशां मुखमतुत्थयदुत्थितोऽद्रेः (शिशुपालवध ५।११) । चुरादिणिचो बहुलं निदर्शनं वेत्यपरे । तेन पक्षे चोरति, चिन्ततीत्यादि सिद्धम् । धातूनामर्थनिर्देशोऽयं निदर्शनार्थमिति सौनागाः । यदाहुः क्रियावाचित्त्वमाख्यातुमेककोऽर्थो निदर्शितः। . प्रयोगतोऽनुमातव्याः अनेकार्था हि धातवः ॥ ३२६. णिङ् अङ्गनिरसने । प्रातिपदिकार्थाद् अङ्गविक्षेपेऽर्थे णिङ् भवति । ङकारस्तङर्थः (द्र० १।३।१२) । हस्तं निरस्यते-हस्तयते, पादयते। . . ___३२७. श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च । श्वेताश्वादीनाञ्चतुर्णां यथासंख्यं णिङ्सङ्गेश्वस्य तरस्येतस्य कस्य च लोपो भवति । श्वेताश्वमाचष्टे तेनातिकामति वा-श्वेतयते । अश्वतरम् - अश्वयते । गालोडितम् --गालोडयते । कालोडित इति १५ गुप्त; गालोडितस्य प्रकृतिप्रत्ययविभागालाभात् । आह्वरकम् आह्वरयते । पारायणिका अर्थानुवृत्तिवद्.अत्रापि णिचमनुवर्तयन्तिश्वेतयति, अश्वयति, गालोडयति, आह्वरयति। . ३२८. पुच्छादिषु धात्वर्थ इति सिद्धम् । पुच्छभाण्डचीवराण णिङ् (३।१।२०) इति पुच्छादिभ्यो धात्वर्थ उदसनादौ णिङ प्रत्ययः २० सिद्धः, पाणिनिनवोक्तत्त्वात् । पुच्छमुदस्यति-उत्पुच्छयते, परिपुच्छ यते, भाण्डानि समाचिनोति–सम्भाण्डयते । चीवरमर्जयति, परिदधाति वा- संचीवरयते भिक्षुः। एवं मुण्डादिभ्यः सत्यापपाशादिभ्योऽपि (द्र० ३।१।२१,२५) णिच् सिद्धः । नपुंसकेन निर्देशो' मङ्गलार्थः। २५ १. अत्र पूर्व ४ पृष्ठस्था टि० ४, ५ द्रष्टव्या। २. धातुपाठरचयितुर्भीमसेनस्य वाक्यमिदमित्याहुरिति बालमनोरमाकाराः। तच्चिन्त्यम् । नहि भीमसेनो धातुपाठकारः, किन्तर्हि ? तवृत्तिकारः । अत्र पुरुषकारवचनम् (पृष्ठ ६५) अनुसन्धेयम् । ३. सिद्धम्' इत्यत्रेति शेषः ।

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444