Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 388
________________ चुरादिगणः (१०) तदिति द्वितीयासमर्थात् . प्रातिपदिकात् करोत्यर्थे प्राचष्टेऽर्थे च णिज् भवति, तथा तेनेति तृतीयासामर्थ्याद् अतिक्रामत्यर्थे णिज् भवति । तीक्ष्णं करोति -तीक्ष्णयति, सूत्रयति । वाक्यमाचष्टे-वाक्ययति, वेदयति । हस्तिनाति' कामति-हस्तयति, अश्वयति । स च णिज् ५ इष्टवद् बहुलं भवति । कानि पुनरिष्ठवत्वे प्रयोजनानि ? णाविष्ठवत्प्रातिपदिकस्य इति पुंवद्भावो रत्वं टिलोपो यणादिलोपपूर्वगुणौ प्राद्यादेशा विन्मतोलुक् च (द्र० महा० ६।४।१५५) हरिणीमाचष्टे - हरितयति, प्रथमाचष्टे-प्रथयति, पटुमाचष्टे-पटयति, दूरं नयतिदवयति, युवानमीक्षते-यवयति, क्षिप्रं भुङ क्ते-क्षेपयति, क्षुद्रं भाषते १० -क्षोदयति, युवानमल्पमाचष्टे-कनयति, स्रग्विणमाचष्टे- स्रजयति, धनवन्तमाचष्टे-धनयति, बहुलमिति प्रियमाचष्टे-प्रापयति । प्रकृत्यैकाज (६।४।१४६) इति टिलोपो नास्ति, बहुलमिति एकाच् प्रकृतिवत्त्वाद् वा-सुखापयति, दुःखापयति, नेष्ठवत्त्वम्, न च भवति -प्रयति, सुखयति, दुःखयति । एवं प्रथयतीत्यादौ उपधावद्धि रपि १५ नास्ति । धातुरूपञ्च प्रातिपदिकस्य भवतीत्यनेन कात्यायनोक्ति स्मरयति-पाख्यानात्कृतस्तदाचष्ट इति कृल्लुक, प्रकृतिप्रत्यापत्तिः,प्रकृतिवच्च कारकम् (३।१।२६ वा०) इति । कंसवधमाचष्टे -कंसं घातयति, न तु कंसं वधयतीति, बलि बन्धयति । पाख्यानादिति न वाच्यम् इहापि दर्शनात्-राजागमनमाचष्टे-राजानमागमयति । प्राचष्ट २० इत्यपि न वाच्यम्, चित्रपुस्तेष्वपि दर्शनात् । आलोपश्च कालात्यन्तसंयोगे मर्यादायाम् (तु० ३।१।२६ वा०)- पारात्रि विवासमाचष्टेरात्रि विवासयति । चित्रीकरणे प्रापि (३।१।२६ वा०) उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं प्राप्नोति- सूर्यमुद्गमयति । नक्षत्रयोगे ज्ञि (३।१।२६ वा०)-पुष्येण योगं जानाति, पुष्येण योज- २५ यति चन्द्रम् । प्रातिपदिकपरिगणनं छिद्रकर्णान्धदण्डादिभिः (१०। ३१०, ३११, ३१२) इति न वाच्यम्, निदर्शनार्थत्त्वात् यद् वक्ष्यति -बहुलमेतन्निदर्शनम् (१०।३२५) । १. 'हस्तेनातिक्रामति' पाठा० । २. भीषयते' पाठा० । ३. 'रपरा वृद्धिः' पाठा०। ३०

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444