________________
चुरादिगणः (१०) तदिति द्वितीयासमर्थात् . प्रातिपदिकात् करोत्यर्थे प्राचष्टेऽर्थे च णिज् भवति, तथा तेनेति तृतीयासामर्थ्याद् अतिक्रामत्यर्थे णिज् भवति ।
तीक्ष्णं करोति -तीक्ष्णयति, सूत्रयति । वाक्यमाचष्टे-वाक्ययति, वेदयति । हस्तिनाति' कामति-हस्तयति, अश्वयति । स च णिज् ५ इष्टवद् बहुलं भवति । कानि पुनरिष्ठवत्वे प्रयोजनानि ? णाविष्ठवत्प्रातिपदिकस्य इति पुंवद्भावो रत्वं टिलोपो यणादिलोपपूर्वगुणौ प्राद्यादेशा विन्मतोलुक् च (द्र० महा० ६।४।१५५) हरिणीमाचष्टे - हरितयति, प्रथमाचष्टे-प्रथयति, पटुमाचष्टे-पटयति, दूरं नयतिदवयति, युवानमीक्षते-यवयति, क्षिप्रं भुङ क्ते-क्षेपयति, क्षुद्रं भाषते १० -क्षोदयति, युवानमल्पमाचष्टे-कनयति, स्रग्विणमाचष्टे- स्रजयति, धनवन्तमाचष्टे-धनयति, बहुलमिति प्रियमाचष्टे-प्रापयति । प्रकृत्यैकाज (६।४।१४६) इति टिलोपो नास्ति, बहुलमिति एकाच् प्रकृतिवत्त्वाद् वा-सुखापयति, दुःखापयति, नेष्ठवत्त्वम्, न च भवति -प्रयति, सुखयति, दुःखयति । एवं प्रथयतीत्यादौ उपधावद्धि रपि १५ नास्ति । धातुरूपञ्च प्रातिपदिकस्य भवतीत्यनेन कात्यायनोक्ति स्मरयति-पाख्यानात्कृतस्तदाचष्ट इति कृल्लुक, प्रकृतिप्रत्यापत्तिः,प्रकृतिवच्च कारकम् (३।१।२६ वा०) इति । कंसवधमाचष्टे -कंसं घातयति, न तु कंसं वधयतीति, बलि बन्धयति । पाख्यानादिति न वाच्यम् इहापि दर्शनात्-राजागमनमाचष्टे-राजानमागमयति । प्राचष्ट २० इत्यपि न वाच्यम्, चित्रपुस्तेष्वपि दर्शनात् । आलोपश्च कालात्यन्तसंयोगे मर्यादायाम् (तु० ३।१।२६ वा०)- पारात्रि विवासमाचष्टेरात्रि विवासयति । चित्रीकरणे प्रापि (३।१।२६ वा०) उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं प्राप्नोति- सूर्यमुद्गमयति । नक्षत्रयोगे ज्ञि (३।१।२६ वा०)-पुष्येण योगं जानाति, पुष्येण योज- २५ यति चन्द्रम् । प्रातिपदिकपरिगणनं छिद्रकर्णान्धदण्डादिभिः (१०। ३१०, ३११, ३१२) इति न वाच्यम्, निदर्शनार्थत्त्वात् यद् वक्ष्यति -बहुलमेतन्निदर्शनम् (१०।३२५) ।
१. 'हस्तेनातिक्रामति' पाठा० । २. भीषयते' पाठा० ।
३. 'रपरा वृद्धिः' पाठा०। ३०