________________
३३२
क्षोरतरङ्गियां
३०१. कर्तृ करणार्थे । कर्तुः सम्बधिन्यर्थे करणवाचिनो यथादर्शनं णिज भवति, कत करणयोरर्थे वा । पालानेन बध्नाति -पालानयति हस्तिनम् । दात्रेण लुनाति-दात्रयति व्रीहीन्, छन्दसोपसान्त्व
यति-उपच्छन्दयति । वारिणा सिञ्चति- वारयति । प्रियैः सलीलं ५ करवारिवारितः,' हस्तेनापनयति'-अपहस्तयति । तिलकेन मण्डयति - तिलकयति इयं सूक्तिरचना।
३०२. चित्र चैत्रस्य करणे । चित्रयति, वैचित्र्यं संपादयतीत्यर्थः । विचित्रितम्, विचित्रणा चित्रस्यालेख्यस्य करण इति दौर्गाः ॥३५५।।
३०३. कदाचिद्दर्शने । स एव चित्रशब्दः कदाचिद्दर्शने आकस्मिको१० त्पत्तौ चुरादिः । चित्रयति, अद्भतम्पश्यतीत्यर्थः । यथा चित्रङ
पाश्चर्ये, क्यच, नमोवरिवश्चित्रङः (३।१।१६) इति-चित्रीयते । चन्द्रः कदाचिदिति धातुमत्त्वाऽनदन्तत्त्वान्नापाठीत् । . ____३०४. अंश समाघाते । समाघातो विभाजनम् । अंशयति चन्द्रो दन्त्यान्तमाह- अंसयति, मयूरव्यंसकः ॥३५६।।।
३०५. वटि विभाजने । वण्टयति, भ्वादौ (१।१७४ नन्दिमते) वण्टति ॥३५७॥
३०६. लजि प्रकाशने । लजयति । भासार्थोऽपि दृष्टः (१०। १९७) भ्वादौ लज लजि भर्त्सने (१।१५१) लञ्जयति हेतौ ॥३५८।
३०७. मिश्र सम्पर्चने । सम्पर्चनं श्लेषः। मिश्रयति 'मिश्रोऽचि' २० (द्र० ३।१।१३४) ॥३५॥
___३०८. संग्राम युद्धे । संग्रामयति', संग्रामयित्त्वा । सिसंग्रामयिषति, असंग्रामयत् । संग्रामोऽचि (द्र० ३।१।१३४) । पूर्वेण (१०।२९७) सिद्धे ग्रामयतेरेव सोपसर्गान् नियमार्थं सूत्रम् ॥३६०॥
१. 'वारितः' कोशपाठः । अनुपलब्धमूलमिदम् । २. 'हस्तेनाक्षिपति' पाठा० ।
३. कैयटोऽनुदात्तेत्त्वमाह (प्रदीप ३।१।१२) । मैत्रेयोऽप्यात्मनेपदमुदाजहार । महाभाष्ये 'अवश्यं संग्रामयतेः सोपसर्गादुत्पत्तिर्वक्तव्या-असङ्ग्रामयत शूर इत्येवमर्थम्' । ३।१।१२। अत्रात्मनेपदनिर्देशात् 'संग्रामयति' इति चिन्त्यम् ।