Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 370
________________ चुरादिगण: (१०) ३१३ १७२. घुषिर् विशब्दने । विशब्दनं विशिष्टशब्दकरणम् । उद्घोषयति । श्रविशब्दन इत्येके । प्रपघोषयति पापम्, अपह्न ुत इत्यर्थः । इरित्त्वमनित्यण्यन्तत्वे लिङ्गम् - प्रघुषत्, प्रजूघुषत् । घुष विशब्दने इति कौशिकः । भ्वादौ (११४३४) घोषति ॥ १६२॥ ४० १७३. श्राङः क्रन्दसातत्ये । चुरादिः १, प्राक्रन्दयति । श्रन्यत्र ( १ | ५८) क्रन्दति ॥ १९३॥ १७४. लष शिल्पोपयोगे । लाषयति । भ्रमादिना तक्ष्णोतीत्यर्थः । अन्यत्र लषति, लष्यति ( १।६२७) । तालव्यान्त इति कौशिकः - लाशयति ॥ १६४ ॥ १७५. भूष अलंकारे । भूषयति । भ्वादौ ( १।४५५) भूषति । तसि भूषेति दुर्ग : - उत्तंसयति । श्रवतंसयति, उत्तंसः, अवतंसः । १६५ १७६. मोक्ष प्रसने । मोक्षयति शरान् । अन्यत्र ( ६ | १३३ ) मोक्षते ॥ १९६॥ १७७. श्रर्ह पूजायाम् । श्रर्हयति श्रजिहत्, अहितम्, प्रर्हणा । भ्वादौ (११४८८) अर्हति ॥ १६७॥ १५ १७८. ज्ञा नियोजने । प्राज्ञापयति भृत्यान् । ज्ञापित; ज्ञापना । अन्यत्र ( 1३८ ) जानाति ॥ १६८ ॥ 1 १७६. भज विश्राणने । विश्राणनं दानम् । विश्राणे विवेचन इत्यन्ये । भाजयति, भाजी ( द्र० ४|१|४२ ) अन्यत्र ( १।७२५ ) भजति, भजते ॥ १६६॥ २० १८०. शृध अप्रसहने । अप्रसहनम् = श्रमर्षः । प्रसहने = अभि १. अत्राह धतुिवृत्तिकारः - 'स्वामी तु आङ्पूर्वी घुषिः क्रन्दसातत्ये चुरादिः, अघोषयतीत्युक्त्वा मैत्रेयाद्युक्तमपरमाहुरित्याह' ( पृष्ठ ३९१ ) । क्षीरतरङ्गिण्यां त्वयं पाठो नोपलभ्यते । पाठोऽत्र भ्रष्टः स्यात् । २. अत्र पुरुषकारधातुवृत्तिका रप्रौढमनोरमाकारादयः स्वाभिमते 'लस' २५ इति दन्त्यं पठित्वा 'लष' इति मूर्धन्यान्तमिति केचित्' इति पठन्ति (पृष्ठ - पुर० ११६, धा० ३६१, प्रो० ६१८ ) । ३. इत्थमेव भ्वादौ (१।४५५ ) प्रप्याह स्वामी । ४. 'सहने' पाठा० । ५. 'अभिलाषी' इत्यधिकं क्वचित् । ३०

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444