Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 384
________________ चुरादिगणः (१०) २२७ २६५. साम सान्तने । सान्तनं प्रीणनम् । सामयति, अससामत् । साम सान्त्वप्रयोगे (१०।२६ चान्द्रमते) इत्यस्यासीसमत् । नामन्सामन् (दश० उ० ६७६) ॥३२३॥ ___२६६. वेल कालोपदेशे । वेलयंति, अविवेलत् । भ्वादौ वेलु गतौ (तु. १।३६०)- वेलति, वेला, तस्याप्यदित्त्वाद् (द्र० ७।४।२) ५ अविवेलत् । तेनात्रनं चन्द्रो नाध्यैष्ट ॥३२४॥ २६७. पल्यूल लवनपवनयोः । लवनपतनयोरिति दुर्गः' । पल्यूलयति क्षेत्रम्, कूलं पल्यूलयति वायुः । वल्यूलेति दौर्गाः ॥३२५॥ २६८. वा गतिसुखसेवनयोः। वापयति । आदन्तत्त्वात् दीर्घ अय लुक ल्यपि (द्र० ६।४।५६)-निर्वाप्य । अदादौ (२१४३) वा १० गतिगन्धनयोः-वाति । वातेत्येके वातयति, अववातत् ॥३२६॥ २६९. गवेष मार्गणे । गवेषयति, गवेषणा ॥३२७॥ २७०. वास उपसेवायाम् । वासयति, अववासत् । वासकः, वासना। भ्वादौ (१७३३) वसति, अवीवसत्, अदादौ (२०१६) वस्ते इह वस स्नेहादौ (१०।१८२)-वासयति ॥३२८॥ . २७१. निवास प्राच्छादने । निवासयति, निवासयित्त्वा, प्रनिनिवासत्'; न्यवासदित्येव युक्तम्, उपसर्गस्य १. अस्मदुर्गधातुपाठकोशे 'लवनपवनयोः' इत्येव पाठः, तथैव तदुपजीव्ये काशकृत्स्नधातुपाठेऽपि । , २. अस्मदुर्गधातुपाठकोशे 'पल्यूल' इत्येय पाठः । काशकृत्स्ते तु 'पल' २० इत्येव धातुः पठ्यते। ३. गतौ सुखसेवने चेत्यर्थः । ४. स्मृतं पुरुषकारे (पृष्ठ २२)। ५. अत्र 'दीर्घ' इत्यस्य स्थाने 'पुकि' इति युक्तः पाठः । 'अय्लुक्' अय् = णिच् । ६. इह संग्रामयतेरिव निवासयित्वा अनिनिवासत् इत्येव युक्तं रूपम्, न तु २५ 'न्यववासत्' इति । यत्तु स्वामिना 'उपसर्गस्य बाह्यत्वात्' इति हेतुरुक्तः, सोऽपि चिन्त्यः, संग्राम इव निवाससमुदायस्य धातुसंज्ञत्वात् । सन्ति चान्येऽपि 'व्यय वीर' पादयो धातवो येषूपसर्गा धात्वैकदेशा एव । येषां चैकदेश उपसर्गस्तेष्वड् उपसर्गात् प्रागेव भवति, न परः । तस्मात् 'अवश्यं संग्रामयतेः सोपसर्गादुत्पत्ति

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444