Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 385
________________ ३२८ । 'क्षौरतरङ्गिण्यां बाह्यत्वात् ॥३२॥ - २७२. भाज पृथक्कर्मणि । विभाजयति, अबभाजत् । भाजितम्, विभाज्य । भ्वादौ भज सेवायाम् (१।७२५)-भजते, भजति, अबी भजत्, भज विश्राणने (१०।१७६)-भाजयति ॥३३०॥ ५ २७३. समाज प्रीतिदर्शने । सभाजयति, सभाज्यते । सभाजनम्, सभाजना, सभाजकः, सभाजः ॥३३१॥ - २७४. ऊन परिहाणे । ऊनयति, मा भवानूनिनत् । ऊनितम्, ऊनोऽचि (द्र० ३।१।१३४) ॥३३२॥ २७५. ध्वन शब्दे । ध्वनयति । भ्वादौ (१।३१०)-ध्वनति, १० ध्वनिः, ध्वानयति ॥३३३॥ . २७६. कूट दाहे' । कूटयति, अचुकूटत् ॥३३४।। २७७. केत विश्रावणे । निमन्त्रण इत्येके । केतयति, अचिकेतत् । केतितः, संकेत्य, संकेतः। भ्वादौ कित निवासे (१।७२०)- केतति, अचीकितत् ॥३३॥ वक्तव्या' इति भाष्यवचनमुपलक्षणमेव । वस्तुतस्तु सर्व एव द्विविधा धातवः सोपसर्गाः, निरुपसर्गाश्च । तदुक्तं परिभाषाकृता-'पूर्व हि धातुरुपसर्गेण युज्यते पश्चात् साधनेन इति' । अस्मिन् दर्शने उपसर्गत्वेन स्वीकृतांशसंयुक्ता एव पूर्णा धातवः संभू, विभू, पराभू इत्येवमादयः । तेभ्यः उपसर्गयोगे सति पश्चात् यदा साधनेन =कारकेण योगो भवति तदा तेभ्यः उत्पद्यमानः 'अट्' सोपसर्गरूपात् प्राक्प्रयुज्यते, उपसर्गाशस्यापि धात्ववयवत्वात्, । तेन असम्भवत्, अवि. भवत्, अपराभवत् इत्यादीन्यपि रूपाणि सम्पत्स्यन्ते । अत एव निवासयित्वा, प्रार्थयित्वा इत्यादौ समासाभावात् ल्यबपि न भवति । यदा तु 'पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण' इति पक्षस्तदा अभवत् इत्येवं रूपे निष्पन्ने सोमा दयः संयुज्यन्ते, तदा 'समभवद्' इत्यादिरूपाणि च भवन्ति । धातूनां द्विविध२५ त्वमस्माभिः स्वीये 'सं० व्या० शास्त्र का इतिहास' नाम्नि ग्रन्थे (भाग १,पृष्ठ २४-२५, सं० २०४१) विस्पष्टीकृतम् । १. उपसर्गस्य बाह्यत्वे पार्थकत्वे वा पूर्वाद् वासयतेरेव धातो रूपसिद्धौ कि धात्वन्तर कल्पनया। २. 'परिदाहे इत्यन्ये' इति धातुवृत्तिकारः (पृष्ठ ३६६) ।

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444