________________
३२८
। 'क्षौरतरङ्गिण्यां
बाह्यत्वात् ॥३२॥ - २७२. भाज पृथक्कर्मणि । विभाजयति, अबभाजत् । भाजितम्, विभाज्य । भ्वादौ भज सेवायाम् (१।७२५)-भजते, भजति, अबी
भजत्, भज विश्राणने (१०।१७६)-भाजयति ॥३३०॥ ५ २७३. समाज प्रीतिदर्शने । सभाजयति, सभाज्यते । सभाजनम्,
सभाजना, सभाजकः, सभाजः ॥३३१॥ - २७४. ऊन परिहाणे । ऊनयति, मा भवानूनिनत् । ऊनितम्, ऊनोऽचि (द्र० ३।१।१३४) ॥३३२॥
२७५. ध्वन शब्दे । ध्वनयति । भ्वादौ (१।३१०)-ध्वनति, १० ध्वनिः, ध्वानयति ॥३३३॥ .
२७६. कूट दाहे' । कूटयति, अचुकूटत् ॥३३४।।
२७७. केत विश्रावणे । निमन्त्रण इत्येके । केतयति, अचिकेतत् । केतितः, संकेत्य, संकेतः। भ्वादौ कित निवासे (१।७२०)- केतति, अचीकितत् ॥३३॥ वक्तव्या' इति भाष्यवचनमुपलक्षणमेव । वस्तुतस्तु सर्व एव द्विविधा धातवः सोपसर्गाः, निरुपसर्गाश्च । तदुक्तं परिभाषाकृता-'पूर्व हि धातुरुपसर्गेण युज्यते पश्चात् साधनेन इति' । अस्मिन् दर्शने उपसर्गत्वेन स्वीकृतांशसंयुक्ता एव पूर्णा धातवः संभू, विभू, पराभू इत्येवमादयः । तेभ्यः उपसर्गयोगे सति पश्चात् यदा साधनेन =कारकेण योगो भवति तदा तेभ्यः उत्पद्यमानः 'अट्' सोपसर्गरूपात् प्राक्प्रयुज्यते, उपसर्गाशस्यापि धात्ववयवत्वात्, । तेन असम्भवत्, अवि. भवत्, अपराभवत् इत्यादीन्यपि रूपाणि सम्पत्स्यन्ते । अत एव निवासयित्वा, प्रार्थयित्वा इत्यादौ समासाभावात् ल्यबपि न भवति । यदा तु 'पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण' इति पक्षस्तदा अभवत् इत्येवं रूपे निष्पन्ने सोमा
दयः संयुज्यन्ते, तदा 'समभवद्' इत्यादिरूपाणि च भवन्ति । धातूनां द्विविध२५ त्वमस्माभिः स्वीये 'सं० व्या० शास्त्र का इतिहास' नाम्नि ग्रन्थे (भाग १,पृष्ठ २४-२५, सं० २०४१) विस्पष्टीकृतम् ।
१. उपसर्गस्य बाह्यत्वे पार्थकत्वे वा पूर्वाद् वासयतेरेव धातो रूपसिद्धौ कि धात्वन्तर कल्पनया।
२. 'परिदाहे इत्यन्ये' इति धातुवृत्तिकारः (पृष्ठ ३६६) ।