SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ चुरादिगणः (१०) . ३२६ २७८. कुण गुण चामन्त्रणे । चकारात्केतोऽपि । आमन्त्रणं गूढोक्तिः । संकेतयति, कुणयति, गुणयति, अचुकुणत्, अजुगुणत् । तुदादौ (६।४६) कुणति, अचूकुणत्, कूण संकोचने (१०।१३६)-विकूणयते मुखम् ॥३३६, ३३७॥ २७६. स्तेन चौर्ये । स्तेनयति, अतिस्तेनत् । 'स्तेनोऽचि' (द्र० ३।। ११३४) ॥३३८॥ . स्तेनान्ते पर्यटके चतुर्विशे सूत्रशते षट्षष्टं धातुसूत्रशतम् । २८०. पा गर्वादात्मनेपदी। गणः इति शेष । २८१. पद गतौ । पदयते। दिवादौ (४।६१) पद्यते, हेतावुपपादयति, भ्वादौ पद स्थैर्य (११४२ मतान्तरे)-पदति ॥३३६॥ .. २८२. गृह ग्रहणे । गृहयते, अजगृहत । स्मृहिगृहि (३।२।१५०) इत्यालुच-गृहयालुः, गृहितम् ॥३४०।। २८३. मृग अन्वेषणे । मृगयते । मृगिकम्प्योः शविधिः'--मृगया, मृगितम् ॥३४१॥ २८४. कुह विस्मापने । कुहयते । कुहेयम्', कुहकः, कुहना ।३४२ १५ २८५. शूर वीर विक्रान्तौ । शूरयते, अशुशूरत । दिवादौ शूरी हिंसायाम् (४।४६)- शूर्यते, हेतौ शूरयति, अशूशुरत् । वीरयतेवीरः ॥३४३॥ २८६. स्थूल परिबृहणे । परिबृहणं पीनत्वम् । स्थूलयते, अतु- .. स्थूलत । 'स्थूलोऽचि' (द्र० ३।१।१३४) ॥३४४॥ २८७. अर्थ उपयाच्मायाम् । अर्थयते, अार्तिथत, अतिथयिषते' ॥३४५॥ २८८. सत्त्रं सन्तानक्रियायाम् । सत्त्रयते, अससत्त्रत, सिसत्त्रयिषते ॥३४६॥ १. अत्र पूर्व ६३ पृष्ठस्था टिप्पणी २ द्रष्टव्या। २. इतोऽग्ने ‘मृगः' इत्यधिकम् । ३. कुहा+ इयम् इति च्छेदः । द्र० वर्णनेयम् धा० १०।३२४ सूत्रे । . ४. नादन्तात् सन् इति काशकृत्स्नसूत्रेण (पृष्ठ २०६) अदन्तेभ्यो धातुभ्यः सन् न भवति । ५. सर्वकोशेषु 'सत्र' एकतकारवान् पाठ. । २५
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy