Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 383
________________ ३२६ क्षीरतरङ्गिण्या १० कल्पते । श्रन्थयति । कपिरिकादित्वात् (तु० ८।२।१८ भा०) श्लथयति । श्रथ प्रतिहर्षे (१०।१३)-श्राथयति ॥३१२-३१४॥ ___ २५७. स्पृह ईप्सायाम् । स्पृहेरीप्सितः(१।४।३६) सम्प्रदानम् - पुष्पेभ्यः स्पृहयति । स्पृहिगृहि (३।२।१५८) इत्यालुच्-स्पृहयालुः ॥ ३१५॥ २५८. भाम क्रोधे । भामयति, अबभामत् । भ्वादौ (१।२६८) भामते, अबीभमत् ॥३१६॥ २५६. सूच पैशुन्ये । सूचयति, असुसूचत् । सूचकः । सूचट् (गण. ३।१३१३४)-सूची, सूचिः । सूचेःक्ष्मन् (तु० उ०४।१७७) सूक्ष्मम् । सूचिसूत्रि (३।१।२२ वा०) इति यङ -सोसूच्यते। एकाचाम् एव षोपदेशत्वं स्मि प्रभृतिभिः साहचर्यादाहः, अतः सूच-सूत्र-संग्रामसान्त्व-साम-समाज-स्थूल-स्तन-स्तोमानां षत्वं नास्ति । विषूचिका सुषामादौ (गण० ८।३।६८) ॥३१७॥ २६०. खेट भक्षणे । खेटयति, अचिखेटत् । खेटो ग्रामः। भ्वादौ १५ खिट उत्रासे (१२०३)-खेटति, अचीखिटत् । आखेटः । खोड इति दोर्गाः ॥३१८॥ २६१. खोड क्षेपे । खोडयति । खोट खोडेति पाठभेदः ॥३१६॥ २६२. गोम उपलेपने । गोमयति माम् । गोमयम् । प्रकृतिप्रत्ययविभागस्य काल्पनिकत्त्वात्कस्मिश्चित्काले गोमाद् गोमयसिद्धिः, अद्यत्वे २० तु 'गोश्च पुरीषे (४।३।१४५) मयट् । एवं कुमारादावनुमन्तव्यम् । ३२०॥ २६३. कुमार क्र. डायाम् । कुमारयति । कुमारयतीति कुमारः, कुत्सितो मारो यस्य वा ॥३२॥ .. २६४. शील उपधारणे। उपधारणमभ्यासः परिचय इत्येके । २५ शीलयति, अशिशीलत् । भ्वादौ शील समाधौ (१३४८)-शीलति, अशीशिलत् ॥३२२।। १. स्मन्' इत्येव युक्तः पाठः, तेनैव 'सूक्ष्म' पदनिष्पत्तेः । २. स्मिङ, प्रभृतिभिः' पाठा०। ३. द्र० पूर्व पृष्ठ १८ टि. ४ । ४. खोट' पाठान्त रम् । अस्मद्दौर्गधातुपाठकोशे खेट भक्षणे खोट क्षेपे' ३० इत्येव पठ्यते।

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444