________________
३२६
क्षीरतरङ्गिण्या
१०
कल्पते । श्रन्थयति । कपिरिकादित्वात् (तु० ८।२।१८ भा०) श्लथयति । श्रथ प्रतिहर्षे (१०।१३)-श्राथयति ॥३१२-३१४॥ ___ २५७. स्पृह ईप्सायाम् । स्पृहेरीप्सितः(१।४।३६) सम्प्रदानम् - पुष्पेभ्यः स्पृहयति । स्पृहिगृहि (३।२।१५८) इत्यालुच्-स्पृहयालुः ॥
३१५॥ २५८. भाम क्रोधे । भामयति, अबभामत् । भ्वादौ (१।२६८) भामते, अबीभमत् ॥३१६॥
२५६. सूच पैशुन्ये । सूचयति, असुसूचत् । सूचकः । सूचट् (गण. ३।१३१३४)-सूची, सूचिः । सूचेःक्ष्मन् (तु० उ०४।१७७) सूक्ष्मम् । सूचिसूत्रि (३।१।२२ वा०) इति यङ -सोसूच्यते। एकाचाम् एव षोपदेशत्वं स्मि प्रभृतिभिः साहचर्यादाहः, अतः सूच-सूत्र-संग्रामसान्त्व-साम-समाज-स्थूल-स्तन-स्तोमानां षत्वं नास्ति । विषूचिका सुषामादौ (गण० ८।३।६८) ॥३१७॥
२६०. खेट भक्षणे । खेटयति, अचिखेटत् । खेटो ग्रामः। भ्वादौ १५ खिट उत्रासे (१२०३)-खेटति, अचीखिटत् । आखेटः । खोड इति दोर्गाः ॥३१८॥
२६१. खोड क्षेपे । खोडयति । खोट खोडेति पाठभेदः ॥३१६॥
२६२. गोम उपलेपने । गोमयति माम् । गोमयम् । प्रकृतिप्रत्ययविभागस्य काल्पनिकत्त्वात्कस्मिश्चित्काले गोमाद् गोमयसिद्धिः, अद्यत्वे २० तु 'गोश्च पुरीषे (४।३।१४५) मयट् । एवं कुमारादावनुमन्तव्यम् ।
३२०॥ २६३. कुमार क्र. डायाम् । कुमारयति । कुमारयतीति कुमारः, कुत्सितो मारो यस्य वा ॥३२॥
.. २६४. शील उपधारणे। उपधारणमभ्यासः परिचय इत्येके । २५ शीलयति, अशिशीलत् । भ्वादौ शील समाधौ (१३४८)-शीलति, अशीशिलत् ॥३२२।।
१. स्मन्' इत्येव युक्तः पाठः, तेनैव 'सूक्ष्म' पदनिष्पत्तेः । २. स्मिङ, प्रभृतिभिः' पाठा०। ३. द्र० पूर्व पृष्ठ १८ टि. ४ । ४. खोट' पाठान्त रम् । अस्मद्दौर्गधातुपाठकोशे खेट भक्षणे खोट क्षेपे'
३० इत्येव पठ्यते।