________________
चुरादिगणः (१०)
३२५ २५०. पश अनुपसर्गात् । गतावित्येव, अर्थानिर्देशात् । अना!ऽयमिति चन्द्रः। भ्वादेश्चुरादेश्चानुपसर्गस्य पशेणिच्यदन्तत्वविधिरित्येके- पशयति । उपसर्गान्नास्ति प्रपशति । पशोऽनुपसर्गाद वादन्त इत्येके -पशयति, पाशयति । मूर्धन्यान्तोऽयमिति नन्दी ॥३०६॥ .
२५१. स्वर आक्षेपे । स्वरयति । भ्वादौ स्वृ शब्दोपतापयोः (१। ५ ६६४)--स्वरति, हेतौ स्वारयति ।।३०७।।
२५२. रच प्रतियत्ने । रचयति । रचना ॥३०॥ .. २५३. कल गतौ संख्याने च । कलयति' । भ्वादौ कल शब्दसंख्यानयोः (१।३३२)- कलते, हेतौ कालयति, क्षेपार्थात् (१०।५६)कालयति गाम् ॥३०॥ - २५४. चह कल्कने । कल्कनं दम्भनम् । चयति, अचचहत् । भ्वादौ (१।४८२) चहति, अचीचहत् ॥३१०॥ . २५५. मह पूजायाम् । महयति, भ्वादौ महति, कण्ड्वादौ (गण ३।१।२७) महीङ – महीयते। अविमह्योष्टिषच (उ० ११५)महिषः । महेरिनश्च (तु० उ० २।६६) महिनः । श्वन्नुक्षन् (उ० १५ १।१५६) इति मघवन् । वर्तमाने पृषबृहद् (उ० २।८४)-महत् । पुंसि संज्ञायां घः (३।३।११८)- मही ॥३११॥
२५६. शार कृप श्रथ दौर्बल्ये । शारयति, अशशारत् । ज्यादौ शू (६।१७)--शृणाति, अशीशरत् । शर इति नन्दी, अदन्तपाठो नाग्लोपि (७।४।२) इत्यर्थः- अशशरत् । सारेति दुर्गः । कृपयति, २० अचकृपत्, [कृपणः], कृपणा। अङिवधौ (द्र० २।३।१०४) कृपा, कृपेस्तादर्थ्य ल:-कल्पयति । भ्वादौ कृपू सामर्थ्य (१३५०८)'वावृतु' धातुः स्वीक्रियते, संहितापाठस्थो 'वा' शब्द: पक्षान्तरे उत्तरधातुना संयुज्यते "वा पश' इति । सायणस्त्वत्र 'वा' निपातः पृथगेव विकल्पार्थ इति ब्रवीति । तस्माद् 'वावृतुवत्' इति स्वामिवचनमयुक्तम् इत्याह (पृष्ठ ३६७)। २५
१. दिशं ताराश्च' इत्यधिक क्वचित् । २. नोपलभ्यते क्षीरतरङ्गिण्याम् ।
३. अत्र लिबिशेन चौरादिकस्य सूत्रस्य (१०।१८६)संख्या निर्दिष्टा । यथा त्वत्र पाठस्तथाऽनेन लत्वं विधीयते । इदं लत्वविधायक सूत्रं क्वस्त्यमिति न ज्ञायते ।
३०