________________
३२४
क्षीरतरङ्गिण्यां
भ्वादौ शठ कैतवे (११२३६)--शठति, हेतौ शाठयति, श्वठ गतौ (१०।२६) इतीहत्यस्य श्वाठयति ।।२९७, २६८।।
२४५. पट वट ग्रन्थे। ग्रन्थो वेष्टनम्' । पटयति रज्जुम, वटयति । पटादिदण्डके (१०।१९७) पाटयति । भ्वादौ अट पट ५ गतौ वट वेष्टने (१।१६८, २०२) पटति, वटति, हेतौ-पाटयति, वाटयति ॥२६६, ३००॥
२४६. रह त्यागे। रहयति । विरहः। (१।४८३) रहति, हेतौ राहयति ॥३०१॥
२४७. रहि गतौ। रहयति, रंहापयति । भ्वादौ (१।४८४) १० रंहति ॥३०२॥
___२४८. स्तन-गदी' देवशब्दे । देवोऽभ्रम् । गदिर् इश्तिपौ धातुनिर्देशे (३।३।१०२ वा०), इदित्त्वन्त्वयुक्तम, अणिच्पक्षे गत्तादिरूपादर्शनात् । अत एव स्तन गद शब्दे इति चन्द्रः(तु०चा धा०१०।
८३) । स्तनयति, गदयति, अजगदत् । स्तनिहृषिपुषिगदि (उ० ३। १५ २६) इति णेरित्नुच् स्तनयित्नुः, गदयित्नुः । भ्वादौ (१।३१० ; ४३) स्तनति, गदति, हेतौ स्तानयति, गादयति, अजीगदत् ॥३०३, ३०४॥
२४६. पत गतौ वा। पतयति, पततिः अपपतत्, अपातीत् । स्पृहिगहिपति (३।२।१५८) इत्यालुच पतयालुः । भ्वादौ (११५८०) पतति, अपप्तत् । अन्ये पत ऐश्वर्य इति पेठुः, वाशब्दस्तूत्तरैकदेशार्थ : 'वावृतुवत् ॥३०॥
१. स्मृतं पुरुषकारे (पृष्ठ ६७) धातुवृत्तौ (पृष्ठ ३६७) च । ____२. द्विवचनस्य रूपम् । श्लोकात्मक एव पाठे द्विवचनत्वं सम्भवति । तस्मात् कस्यचिच्छ्लोकात्मकस्य धातुपाठस्येयं प्रतिच्छाया । नान्यत्र क्वचिदप्येवं
द्विवचनेन वा धातोः पाठ उपलभ्यते । २५ ३. मुद्रिते चान्द्रधातुपाठे 'ष्टन' षोपदेशः पठ्यते । अत्राह पुरुषकारः - 'न
चास्यापि दन्त्यपरसादित्वात् षोपदेशत्वम् ? स्म्याछेकाच्साहचर्यादनेकाचां नैतदित्याहुः' (पृष्ठ ६२)।
४. स्मरति धातुवृत्तिकारः (पृष्ठ ३६७),निराचष्टे च । अत्रेदमवधेयम्-- यथा 'तपऐश्वर्येवावृतुवरणे' (४।४८; ४६) इति संहितापाठे पठ्यमानो 'वा' ३० शब्द विगृहीतपाठे पूर्वसूत्रस्यान्त्यावयवयो भवति, पक्षान्तरे च वृतुना संयोज्य