SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ चुरादिगण: ( १० ) ३२३ युक्तम्' । धर्षयति, धर्षति, प्रधृष्टः, प्रधर्षितः । स्वादौ ञिधृषा प्रागल्भ्ये ( ५।२६) घृष्णोति ॥ २६३ ॥ सप्तत्रशतिसूत्रेषु चत्वारिंशताधातुभिरावृषीयपर्यट्टकः । २४०. प्रदन्ताः । इत प्रा गणान्ताद् इत्संज्ञानिषेधार्थ मदन्तत्त्वं विधीयते, ततश्च श्रतो लोप: ( ६।४।४८ ) इत्यल्लोपस्य स्थानिवत्वाद् ५ वृद्ध्याद्यभावः – कथयति कथकः, बहुवचनाद् वटिलजिप्रभृतीनाम् ( १०/३०५, ३०६ ) प्रकारान्तागमो भवतीति द्रमिडा:- वण्टापयति, लज्जापयति । २४१. कथ वाक्यप्रतिबन्धे । प्रतिबन्ध विच्छेदोदीरणात् प्रत एव वाक्यप्रबन्ध इत्येके पेठुः । कथयति । अल्लोपात्परापि वृद्धिर्नास्ति, परशब्दस्येष्टवाचित्वात् (१।४।२ भाष्ये) चिन्तपूजि (तु० ३।३।१०५ ) इत्यङ - कथा - णेरनिटि ( ६ । ४ । ५१ ) इति लोपः, कथकः, संकथय्य, ल्यपि लघुपूर्वात् ( ६।४।५६ ) इत्यत् । अचकथत् सन्वल्लघुनि (७|४| ९३) इति नास्त्यग्लोपित्वात् । कथमचीकथत् ? प्रकृत्यन्तरं श्रन्वेव्यम् ।। २६४।। २४२. वर ईप्सायाम् । कन्यां वरयति, वरः चुरादिवृत्रो (१०। २०८) वारयति, वरति, वरते, स्वादौ वृत्र, वरणे ( ५/६ ) - वृणोति, वृणुते, त्र्यादौ वृङ् सम्भक्तौ ( ६ |४२ ) वृणीते ॥ २६५॥ १. ' इत्युक्तम्' पाठा० । २. 'अथादन्ताः' इति सूत्रे । नादन्तात् सन् इति काशकृत्स्नाः प्रतिजानते । (का० धातु० ६ | १६३; पृष्ठ २०९ ) । १० २४३. गण संख्याने । गणयति । ई च गणः ( ७/४/१७) प्रजीगणत्, अजगणत् । गणकः, गणिका, गणः, गणना, गणनम् ॥ २६६॥ २४४. शठ वठ श्रसम्यगाभाषणे । शठयति, श्वठयति । २० ३. स्मृतं प्रक्रियाकौमुद्याम् (पृष्ठ २९५ ) । ४. अत्र पुरुषकारः 'सम्यगाभाषणे सम्यग्वचनक्रियायामिति क्षीरस्वामी' इति क्षीरपाठमुद्धरति (पृष्ठ ६९ ) । न च तथात्र पाठो दृश्यते । युक्तश्चायमेव पाठः । काशकृत्स्नदुर्गावपि 'शठ श्वठ सम्यगाभाषणे' इति पेठतुः (काग० धातु० पृष्ठ २०९) । १५ २५
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy