________________
३२२
: क्षीरतरङ्गिण्या - २३२. भू प्राप्तावात्मनेपदी वा' । सम्भावयते, सम्भवते, इत्थम्भूतः । भवोऽवकल्कने (१०।१८५)-भावयति, भ्वादौ (१।१) भवति पाठादेव सिद्धे वावचनमणिच्संनियोगेऽपि तर्थम्-याचितारश्च नः सन्तु दातारश्च भवामहै ।।२८६॥
२३३. वच भाषणे । वाचयति, वचति, वाच्यते, वच्यते । चन्द्रः संदेशे चुरादिमाह । अदादौ (२०५७) वक्ति, उच्यते, स्वपिसाहचर्याद् (६।१।१५) आदादिकस्य सम्प्रसारणम् ॥२८७॥ - २३४. गर्ह विनिन्दने । गर्हयति, गर्हति । भ्वादौ (१।४२२) गर्हते
॥२८८॥ १० २३५. मार्ग अन्वेषणे । मागंयति, मार्गति । मृग अन्वेषणे (१०। २८३)-मृगयते ॥२८॥
२३६. कठि शोके । उत्कण्ठयति, उत्कंठति । भ्वादौ (१।१६७) उत्कंठते ॥२६०॥
__ २३७. मृजूष् शौचालंकारयोः। मार्जयति, मार्जति, मार्जना, १५ माजिता, रसाला' चेति लोकः । अदादौ (२।६१) संमाष्टि, न लुमताङ्गस्य (१।१।६१) इत्यस्यानित्यत्वात् मृजेरात् ॥२६१॥ .
२३८. मृष तितिक्षायाम् । मर्षयति, मर्षति । दिवादौ (४।५४) मृष्यति । केचिद् अमुमदन्तत्वौपजीवनार्थं व्यत्यस्यं पठन्ति —मृषयति,
मृषति ॥२२॥ २० २३६. धृष अप्रसहने । अप्रसहनमभिभवः, अत एव प्रसहन इति
१. सर्वकोशेषु विद्यमानं, क्षीरस्वामिना च व्याख्यायमानं 'वा' पदं लिबिशेन भ्रान्त्या निष्कासितम् ।
२. आत्मनेपदं महता प्रपञ्चेन निराकृतं पुरुषकारे (पृष्ठ १२) । ३. इतोऽग्रे 'संस्कारे च-मार्गयति वाससी' इत्यधिक क्वचित् ।
४. 'मृजूष इति क्षीरस्वामी, षकारोऽर्थ इति च' इत्युद्धृत्य प्रत्याख्यातवान् पुरुषकार:-'तच्चिन्त्यम् – मृजेति भिदादिपाठात् सिद्धेः' इति (पृष्ठ ५७) । षकारोऽङर्थः' इति पाठोनेहोपलभ्यते।
५. द्र० 'रसाला तु मार्जिता' । अमरकोश २।६।४४॥ न्यायसंग्रहे तु 'मर्ज शब्दे-मर्जयति । मजिता रसाला' इति पठ्यते (पृष्ठ १३६) । ३० ६. 'अथादन्ताः' इत्युत्तरसूत्रानन्तरमित्यर्थः ।