________________
४१
चुरादिगणः (१०)
३२१ २२५. प्रोज़ तर्पणे। प्रीणयति,' प्रोञ्जोर्नु क् च साहचर्यात् (तु० ७।३।३७ वा०)प्राययति इत्येके, प्रयते, प्रयति, प्रीणितः दिवादौ प्रीड़ प्रीतौ (४।३४)-प्रीयते, क्रयादौ (९।२) प्रीणाति, प्रीणीते ॥२७६।
२२६. श्रन्थ ग्रन्थ संदर्भे । संदर्भो बन्धनम् । श्रन्थयति, ग्रन्थयति । श्रन्थति, ग्रन्थति। भ्वादौ श्रथि शैथिल्ये, ग्रथि कौटिल्ये (१।२६,३०) ५ श्रन्थते, ग्रन्थते । क्रयादौ (९।४४,४६) श्रथ्नाति, ग्रथ्नाति ॥२८०, २८१॥
२२७. प्राप्लु लम्भने । लम्भनं प्राप्तिः । प्रापयति, आपति, प्रापितम् । स्वादौ व्याप्तौ (५।१७) प्राप्नोति । प्राप्तम् ॥२२॥ - २२८. तनु श्रद्धोपकरणयोः । तानयति, तनति, तत्त्वा, तनित्वा, १० नितान्तम् । तनादौ तनु विस्तारे (८।१) तनुते, तनोति, ततः ।।
२२६. उपसर्गाच्च दर्थे । चकारं भिन्नक्रममाहुः—प्रतानयति, आतानयति, प्रतनति । वन श्रद्धोपहिसंनयोरिति चान्द्रं पारायणम् - वानयति, उपसर्गात्तद्वानयति, तच्च भ्वादौ वन शब्दे (१।३११) इत्येव सिद्धम् ।।२८३॥
२३०. वद संदेशने । वादयति, वदति', वद्यते । भ्वादौ (१॥ . ७३६) वदति, वदते, यजादित्त्वात् (६।१।१५) संप्रसारणम्उद्यते । चन्द्रो वचेत्यपाठीत् ॥२८४॥ ___ २३१. मान पूजायाम् । मानयति, मानति । भ्वादौ (१।६६८) मीमांसते ॥२८॥
१. स्मृतं पुरुषकारे (पृष्ठ ३०) धातुवृत्तौ (पृष्ठ ३८५) च ।
२. 'चकाराद् विभाषामाह' पाठा० । अत्र 'चकारो भिन्नक्रमः, प्रत्ययार्थ समुच्चिनोति' इति काशिकापाठो (४।४।३६) द्रष्टव्यः । यथा 'पक्षिमत्स्यमृगान् हन्ति, परिपन्थं च तिष्ठति' (४।४।३५, ३६) इति श्लोकानुरोधेन चकारः क्रम भित्त्वा तिष्ठतेः प्राक् पठ्यते, तथैव 'उपसर्गाच्च दैये' इत्यपि कस्यचिच्छ्लोकबद्धधातुपाठस्यांशः प्रतीयते, तदनुरोधेनैव चात्र चकारो दैर्घ्य' इत्यतः प्राक पठ्यते। । ३. 'संवादयति, संवदति' पाठा०। .... ४ भ्वादौ परस्मैपदिषु पठ्यते । तेन 'वदप्ति' इत्येव युक्तम् । काशकृत्स्ने धातुपाठे तूभयपदिषु पठ्यते (पृष्ठ १६१) ।
५. क्वापाठीदिति न ज्ञायते । ६. इतोऽग्रे 'विचारे' इत्यधिकम् । ३०
२०