SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३२० 'क्षोरतरङ्गिभ्यां २१५. छद संवरणे' । छादयति, छदति। ऊर्जने घटादिः (१॥ ५५०)- छदयति ॥२६॥ २१६. श्रथ हिंसायाम् । श्राथयति, श्रथति। श्रन्थेत्येके-श्रन्थयति, श्रन्थति ॥२६॥ ___२१७. मी गतौ'; मनने । माययति, मयति । दिवादौ (४।२७) मीयते, क्रयादौ (९।४) मीनाति ॥२७०॥ २१८. ऋथ हिंसायाम् । क्राथयति, ऋथति । भ्वादौ (१।५३६) मित्-कथयति ॥२७१।। २१६. शोक प्रामर्षणे । शीकयति, शीकति, अशीशिकत् । भ्वादौ १० शोक सेचने (११६२) -शीकते, अशिशीकत् ।।२७२॥ __२२०. अर्द हिसि हिंसायाम् । अर्दयति, अर्दति । हिंसयति, हिंसति । रुधादौ (७।२४) हिनस्ति ।।२७३,२७४।। २२१. प्राङः षद पद्यर्थे । पद्यतेरर्थो गतिः। प्रासादयति, आसदति, आसोदतीत्येके । अन्यत्र (११५६४) सीदति ॥२७॥ २२२. शुन्ध शौचकरणे । शुन्धयति, शुन्धति ॥२७६।। __ २२३. जुष परितर्पणें । जोषयति, तुदादौ जुषी प्रीतिसेवनयोः(६। १०)-जुषते ॥२७७॥ . __ २२४. धून कम्पने । धूनयति, 'धावयति' इत्येके । धमते,धवति, धूनितः । स्वादौ (५।१०) धुनोति, धूनोति । तुदादौ (६।६८)धुवति, क्रयादौ (९।१६) धुनाति ॥२७॥ १. अत्र १०३६; पृष्ठ २६५, टिप्पणी ५ द्रष्टव्या। २. पुरुषकारे (पृष्ठ २७) 'मतविति क्षीरस्वामी' इत्येवमुध्रियते । तथा सति क्षीरस्वामिन इहस्थः शुद्धः पाठः मी मतौ । मनने।' इत्येवं स्यात् । 'मतौ' इत्यस्य 'मनने' इत्यर्थनिर्देशः । २५ ३. द्र० 'अभिषदेत्' कश्यपसंहिता (पृष्ठ ४१) । ४. 'परितर्पणे परितृप्तिक्रियायाम् इति क्षीरस्वामी' इति पुरुषकारे (पृष्ठ ११७) धातुवृत्तो (पृष्ठ ३६५) च पाठ उध्रियते, स चात्र न दृश्यते । ५. उद्धृतं पुरुषकारे (पृष्ठ ३४) ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy