________________
AS
चुरादिगणः(१०)
३१६ स्वादौ (५६) वृणुते, वृणोति, क्रयादौ वृङ सम्भक्तौ (९।४२) वृणीते' ॥२६०॥
२०६. ज़ वयोहानौ । जारयति, जरति, जारणा । दिवादौ (४। २०) जीर्यति, जीर्णः । यादौ (९।२३) जृणाति । वि इति च नन्दी-ज्राययति, यति, क्रयादौ घ्रिणाति ॥२६१॥
२१०. रिच वियोजन-सम्पर्चनयोः । रेचयति, रेचति । रुधादौ (७।४) रिणक्ति ॥२६२॥
२११. शिष असर्वोपयोगे । असर्वोपयोगोऽनुपयुक्तत्त्वम् । शेषयति, शेषति । विपूर्वोऽतिशये । अतिशय उत्कर्षः। विशेषयति, विशेषति, व्यशेषीत् । रुधादौ शिष्ल विशेषणे (७।१९) विशिनष्टि, व्यशिषत् १०
__. ॥२६३॥ २१२. तप दाहे । तापयति, तपति ।।२६४॥
२१३. तृप दप संदीपने । तर्पयति, तर्पति । दिवादौ तृप प्रीती (४।८६) तृप्यति । स्वादौ तृप्नोति । दर्पयति, दर्पति । दिवादौ (४। ८७). दृप्यति । चूत छुदेत्येके-चर्तयति, चर्तति; छर्दयति, छर्दति ॥ १५ २६५,२६६॥
२१४. दुभी भये। दर्भयति, दर्भति। ऋयादौ दृभी ग्रन्थेदृम्णाति ॥२६७॥
१. द्र० पूर्वपृष्ठस्था टि० ६ । २. उद्धृतोऽयं पाठः पुरुषकारे (पृष्ठ २) ।
३. इतो ये 'रिङ क्ते' इत्यधिकम् । ___४. उद्धृतं धातुवृत्तौ (पृष्ठ ३६४) । पुरुषकारकृत्तु क्षीरस्वामिमैत्रेयरक्षितौ छदअपवारणे इति यौजादिकस्यैव छदेरूजने छादयतीतिमित्त्वार्थो पाठ इत्याहत्तुः (पुरुषकार, पृष्ठ ८६) ।
५. क्षीरस्वामी स्वादौ तृपधातुन पठति । काशकृत्स्ने (पृष्ठ १५५) दौर्ग २५ च धातुपाठे 'धिवि तप प्रीणने' इति पठ्यते । पाणिनिः क्षुम्नादिषु (गण० ८। ४१३९) तृप्नोतिशब्दं पठति । तेनास्य स्वादिपाठो युक्तः प्रतिभाति ।
६. क्षीरतरङ्गिण्यां ऋयादी. दुभी ग्रन्थे न पठ्यते। तुदादौ (३५) पठ्यते, तेन दृभति इति युक्तम् ।