________________
३१८
क्षीरतरङ्गिण्यां विकरणः शप् । इह नियमेन णिचो विकल्पः । अनित्यण्यन्तत्वं तु यथालक्ष्यम्, क्वचिद् विकल्पार्थम् ।
२०२. युज पृची सम्पर्चने' । योजयति, योजति । दिवादौ युज समाधौ (४।६७) युज्यते, रुधादौ युजिर् योगे (७७)-युनक्ति । सम्पर्चयति, रुधादौ (७।३०) सम्पृणक्ति, अदादौ पृची सम्पर्के (२। २१) संपृक्ते ॥२५३, २५४॥ __२०३. अर्च पूजायाम् । अर्चयति, अर्चति ॥२५॥
२०४. षह मर्षणे। साहयति, सहति । यथा-स एवायं नागः सहति कलभेभ्यः परिभवम (सुभाषित–६३१) भ्वादौ (११५६०). सहते ।।२५६॥ __ २०५. ईर क्षेपे । क्षेपः प्रेरणम् । ईरयति, ईरति । अदादौ (२। ११) ईर्ते ॥२५७॥
२०६. ली द्रवीकरणे। विलालयति, विलापयति । विलाययति, विलयति, विलयः विलायितम । लियो वा इति व्यवस्थितविभाषात्त्वाद् विलम्भनपूजाभिभवेभ्योऽन्यत्रात्वं नास्तीत्यत्वायौ, विलम्भनादावेवात्त्वं पुक् च-कस्त्वमुल्लापयते? आलापयति, अपलापयते, लियः संमाननशालीनीकरणयोश्च (१।३।७०) इति तङ, स्नेहविपाटने नुक् (तु० ७।३।३६) घृतं विलीनयति । दिवादी लोङ् श्लेषणे (४।२९)-लीयते क्रयादौ (९।३२)लिनाति ॥२५८॥
२०७. वजी वर्जने । वर्जयति, वर्जति । अदादौ (२।२० व्याख्याने) वृक्ते, रुधादौ (७।२६) वृणक्ति ॥२५६॥
२०८. वृत्र प्रावरणे । 'आवारयति; पावरति, आवरते । १. 'संबन्धने इति क्षीरस्वामी' इति पुरुषकारः (पृष्ठ ५२) । २. अत्र बालमनोरमा द्रष्टव्या, चुरादि १८०६ । ३. विलीनयति' पाठा० ।
४. सर० कण्ठा० ६।११५६।। पाणिनीयं तु विभाषा लीयते:' (६।१। ५१) द्रष्टव्यम् ।
५. 'विपातने' पाठान्तरम्। ६. प्रावारयति........ वृणीते' पुरुषकारे (पृष्ठ ३६) उद्धृतः । तत्रैव चेतोऽग्रे 'तुदादौ वृङ संभक्तौ वियेत इति' इत्यधिकं पठ्यते, तदत्र नास्ति ।