Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 381
________________ ३२४ क्षीरतरङ्गिण्यां भ्वादौ शठ कैतवे (११२३६)--शठति, हेतौ शाठयति, श्वठ गतौ (१०।२६) इतीहत्यस्य श्वाठयति ।।२९७, २६८।। २४५. पट वट ग्रन्थे। ग्रन्थो वेष्टनम्' । पटयति रज्जुम, वटयति । पटादिदण्डके (१०।१९७) पाटयति । भ्वादौ अट पट ५ गतौ वट वेष्टने (१।१६८, २०२) पटति, वटति, हेतौ-पाटयति, वाटयति ॥२६६, ३००॥ २४६. रह त्यागे। रहयति । विरहः। (१।४८३) रहति, हेतौ राहयति ॥३०१॥ २४७. रहि गतौ। रहयति, रंहापयति । भ्वादौ (१।४८४) १० रंहति ॥३०२॥ ___२४८. स्तन-गदी' देवशब्दे । देवोऽभ्रम् । गदिर् इश्तिपौ धातुनिर्देशे (३।३।१०२ वा०), इदित्त्वन्त्वयुक्तम, अणिच्पक्षे गत्तादिरूपादर्शनात् । अत एव स्तन गद शब्दे इति चन्द्रः(तु०चा धा०१०। ८३) । स्तनयति, गदयति, अजगदत् । स्तनिहृषिपुषिगदि (उ० ३। १५ २६) इति णेरित्नुच् स्तनयित्नुः, गदयित्नुः । भ्वादौ (१।३१० ; ४३) स्तनति, गदति, हेतौ स्तानयति, गादयति, अजीगदत् ॥३०३, ३०४॥ २४६. पत गतौ वा। पतयति, पततिः अपपतत्, अपातीत् । स्पृहिगहिपति (३।२।१५८) इत्यालुच पतयालुः । भ्वादौ (११५८०) पतति, अपप्तत् । अन्ये पत ऐश्वर्य इति पेठुः, वाशब्दस्तूत्तरैकदेशार्थ : 'वावृतुवत् ॥३०॥ १. स्मृतं पुरुषकारे (पृष्ठ ६७) धातुवृत्तौ (पृष्ठ ३६७) च । ____२. द्विवचनस्य रूपम् । श्लोकात्मक एव पाठे द्विवचनत्वं सम्भवति । तस्मात् कस्यचिच्छ्लोकात्मकस्य धातुपाठस्येयं प्रतिच्छाया । नान्यत्र क्वचिदप्येवं द्विवचनेन वा धातोः पाठ उपलभ्यते । २५ ३. मुद्रिते चान्द्रधातुपाठे 'ष्टन' षोपदेशः पठ्यते । अत्राह पुरुषकारः - 'न चास्यापि दन्त्यपरसादित्वात् षोपदेशत्वम् ? स्म्याछेकाच्साहचर्यादनेकाचां नैतदित्याहुः' (पृष्ठ ६२)। ४. स्मरति धातुवृत्तिकारः (पृष्ठ ३६७),निराचष्टे च । अत्रेदमवधेयम्-- यथा 'तपऐश्वर्येवावृतुवरणे' (४।४८; ४६) इति संहितापाठे पठ्यमानो 'वा' ३० शब्द विगृहीतपाठे पूर्वसूत्रस्यान्त्यावयवयो भवति, पक्षान्तरे च वृतुना संयोज्य

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444