Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 375
________________ ३१८ क्षीरतरङ्गिण्यां विकरणः शप् । इह नियमेन णिचो विकल्पः । अनित्यण्यन्तत्वं तु यथालक्ष्यम्, क्वचिद् विकल्पार्थम् । २०२. युज पृची सम्पर्चने' । योजयति, योजति । दिवादौ युज समाधौ (४।६७) युज्यते, रुधादौ युजिर् योगे (७७)-युनक्ति । सम्पर्चयति, रुधादौ (७।३०) सम्पृणक्ति, अदादौ पृची सम्पर्के (२। २१) संपृक्ते ॥२५३, २५४॥ __२०३. अर्च पूजायाम् । अर्चयति, अर्चति ॥२५॥ २०४. षह मर्षणे। साहयति, सहति । यथा-स एवायं नागः सहति कलभेभ्यः परिभवम (सुभाषित–६३१) भ्वादौ (११५६०). सहते ।।२५६॥ __ २०५. ईर क्षेपे । क्षेपः प्रेरणम् । ईरयति, ईरति । अदादौ (२। ११) ईर्ते ॥२५७॥ २०६. ली द्रवीकरणे। विलालयति, विलापयति । विलाययति, विलयति, विलयः विलायितम । लियो वा इति व्यवस्थितविभाषात्त्वाद् विलम्भनपूजाभिभवेभ्योऽन्यत्रात्वं नास्तीत्यत्वायौ, विलम्भनादावेवात्त्वं पुक् च-कस्त्वमुल्लापयते? आलापयति, अपलापयते, लियः संमाननशालीनीकरणयोश्च (१।३।७०) इति तङ, स्नेहविपाटने नुक् (तु० ७।३।३६) घृतं विलीनयति । दिवादी लोङ् श्लेषणे (४।२९)-लीयते क्रयादौ (९।३२)लिनाति ॥२५८॥ २०७. वजी वर्जने । वर्जयति, वर्जति । अदादौ (२।२० व्याख्याने) वृक्ते, रुधादौ (७।२६) वृणक्ति ॥२५६॥ २०८. वृत्र प्रावरणे । 'आवारयति; पावरति, आवरते । १. 'संबन्धने इति क्षीरस्वामी' इति पुरुषकारः (पृष्ठ ५२) । २. अत्र बालमनोरमा द्रष्टव्या, चुरादि १८०६ । ३. विलीनयति' पाठा० । ४. सर० कण्ठा० ६।११५६।। पाणिनीयं तु विभाषा लीयते:' (६।१। ५१) द्रष्टव्यम् । ५. 'विपातने' पाठान्तरम्। ६. प्रावारयति........ वृणीते' पुरुषकारे (पृष्ठ ३६) उद्धृतः । तत्रैव चेतोऽग्रे 'तुदादौ वृङ संभक्तौ वियेत इति' इत्यधिकं पठ्यते, तदत्र नास्ति ।

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444