Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 349
________________ २६२ क्षीरतरङ्गिण्यां ६. प्रोलडि उत्क्षेपे' । प्रलण्डयति भारम् । श्रोण्डितः । तथा लण्ड : * इति स्मरणाद् प्रदित्त्वं नास्ति । अन्ये त्वनित्यण्यन्तत्वात् निष्ठानत्वार्थम् ( द्र० ८ । २०४५ ) प्रो इत्येनुबन्धमाहुः - लण्डनः । दौर्गास्तु क्ते लण्डन इत्युदाजह:, तच्च पापात् पापीयः, अव्यवहि५ तस्य नत्वाद् । अन्यथा विन्नादिवद् विदितादौ नत्वं स्यात् । चान्द्रा लन्दिमप्याहुः - प्रवलन्दयत्युष्ट्रम् । इत्थं लक्षणमलक्षयताम् श्रन्धकुवकुटीन्यायेन लक्ष्यमनुसरतां कियदिव रुष्यामः, कियदिव तुष्यामः ? 11211 १०. जल पवारणे । जालयति । जालक: । जालम् । लज इति १० नन्दी - लाजयति, लाजाः । चान्द्रा उभयमप्येतन्नषः, जल घात्ये ( १।५७०), लज लाजि ( १ । १५१,१५२ ) इत्याभ्यां सिद्धेः । ज्वला दौ जल घात्ये ( ११५७० ) - जलति जालम्, जलम् ॥१०॥ १५ ११. पीड गहने । गहनं बाधा | पीडयति । क्तिनं बाधित्वा युचि प्राप्ते ( द्र० ३।३।१०७) भिदादित्वात् ( गण० ३ | ३ | १०४ ) पीडा | भासभाषदीप (७ | ४ | ३ ) इत्यपिपीडत् प्रपीपिडत् । पीड अवगाहन इति दुर्ग : - तिलपीडकः ॥११॥ १२. नट श्रवस्यन्दने । अवस्यन्दनं भ्रंशनम् । नाटकाथपिषाम् (२। ३।५६ ) इति चौरस्योन्नाटयति । नाटकः । भ्वादौ घटादौ नट नतौ ( १/५२८ ) - नटयति शाखाम् । नट नृतौ ( १।२०६ ) - नटति नाटयति । नड इति नन्दी - नडः, नाडी प्रणाली ॥ १२ ॥ २० 'क्षीरस्वामी तु मिद स्नेहने मेदयति इत्युक्त्वा कैश्चिदिदित् पठ्यत इत्याह ' ( पुरुषका र पृष्ठ १०० ) । ' क्षीरस्वाम्यनिदितं पठित्वा कैश्चिदिदितं पठ्यत इत्याह' इति (धातुवृत्ति पृष्ठ ३७९ ) । १. 'उत्क्षेपणे' पाठा० । २. भ्रष्टोऽयं पाठ: । अयं सम्पूर्णः श्लोको भूधातौ (पृष्ठ ६) पठ्यते । २५ तत्रापि चतुर्थचरणस्य पाठो महान् भ्रष्टः । तत्रैव टिप्पण्यामस्माभिः चतुर्थचरणस्य 'स्मर्यते नेत् तथौलडे:' इति शुद्धः पाठ ऊहितः । तदनन्तरमस्मदूहित एव पाठः पुरुषकारेणोद्धृत उपलब्ध: ( पुरुष० पृष्ठ ११९ ) । अत्र षष्ठ ( ६ ) पृष्ठस्था प्रथमा टिप्पण्यपि द्रष्टव्या । ४. कियद्वा' पाठा० । ३० ३. मुद्रिते चान्द्रधातुपाठे नोपलभ्यते । ५. डलयोरेकत्वस्मरणादिति नियमेन ।

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444