________________
२६२
क्षीरतरङ्गिण्यां
६. प्रोलडि उत्क्षेपे' । प्रलण्डयति भारम् । श्रोण्डितः । तथा लण्ड : * इति स्मरणाद् प्रदित्त्वं नास्ति । अन्ये त्वनित्यण्यन्तत्वात् निष्ठानत्वार्थम् ( द्र० ८ । २०४५ ) प्रो इत्येनुबन्धमाहुः - लण्डनः । दौर्गास्तु क्ते लण्डन इत्युदाजह:, तच्च पापात् पापीयः, अव्यवहि५ तस्य नत्वाद् । अन्यथा विन्नादिवद् विदितादौ नत्वं स्यात् । चान्द्रा लन्दिमप्याहुः - प्रवलन्दयत्युष्ट्रम् । इत्थं लक्षणमलक्षयताम् श्रन्धकुवकुटीन्यायेन लक्ष्यमनुसरतां कियदिव रुष्यामः, कियदिव तुष्यामः ?
11211
१०. जल पवारणे । जालयति । जालक: । जालम् । लज इति १० नन्दी - लाजयति, लाजाः । चान्द्रा उभयमप्येतन्नषः, जल घात्ये ( १।५७०), लज लाजि ( १ । १५१,१५२ ) इत्याभ्यां सिद्धेः । ज्वला दौ जल घात्ये ( ११५७० ) - जलति जालम्, जलम् ॥१०॥
१५
११. पीड गहने । गहनं बाधा | पीडयति । क्तिनं बाधित्वा युचि प्राप्ते ( द्र० ३।३।१०७) भिदादित्वात् ( गण० ३ | ३ | १०४ ) पीडा | भासभाषदीप (७ | ४ | ३ ) इत्यपिपीडत् प्रपीपिडत् । पीड अवगाहन इति दुर्ग : - तिलपीडकः ॥११॥
१२. नट श्रवस्यन्दने । अवस्यन्दनं भ्रंशनम् । नाटकाथपिषाम् (२। ३।५६ ) इति चौरस्योन्नाटयति । नाटकः । भ्वादौ घटादौ नट नतौ ( १/५२८ ) - नटयति शाखाम् । नट नृतौ ( १।२०६ ) - नटति नाटयति । नड इति नन्दी - नडः, नाडी प्रणाली ॥ १२ ॥
२०
'क्षीरस्वामी तु मिद स्नेहने मेदयति इत्युक्त्वा कैश्चिदिदित् पठ्यत इत्याह ' ( पुरुषका र पृष्ठ १०० ) । ' क्षीरस्वाम्यनिदितं पठित्वा कैश्चिदिदितं पठ्यत इत्याह' इति (धातुवृत्ति पृष्ठ ३७९ ) । १. 'उत्क्षेपणे' पाठा० । २. भ्रष्टोऽयं पाठ: । अयं सम्पूर्णः श्लोको भूधातौ (पृष्ठ ६) पठ्यते । २५ तत्रापि चतुर्थचरणस्य पाठो महान् भ्रष्टः । तत्रैव टिप्पण्यामस्माभिः चतुर्थचरणस्य 'स्मर्यते नेत् तथौलडे:' इति शुद्धः पाठ ऊहितः । तदनन्तरमस्मदूहित एव पाठः पुरुषकारेणोद्धृत उपलब्ध: ( पुरुष० पृष्ठ ११९ ) । अत्र षष्ठ ( ६ ) पृष्ठस्था प्रथमा टिप्पण्यपि द्रष्टव्या ।
४. कियद्वा' पाठा० ।
३०
३. मुद्रिते चान्द्रधातुपाठे नोपलभ्यते । ५. डलयोरेकत्वस्मरणादिति नियमेन ।