SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ चुरादिगणः (१०) २६३ १३. श्रथ प्रतिहर्षे । प्राधृषाद्वा (१०।२०१) इत्यत्र श्रथ हिंसायाम् (१०।२१६) इति सिद्धिः, इह पाठाद् रूपान्यत्वम् - श्राथयते । नन्दो ऋथ इत्याह-क्राथपिषाम् (२।३।५६) इति चौरस्योत्क्राथयति ॥१३॥ १४. बध संयमने । बाधयति, अबीबधत् । भ्वादौ बाधु रोटने ५ (१६)-बाधते, अबबाधत् । बन्ध इति चान्द्राः' -बन्धयति, बन्धति। क्रयादौ (९।४०) बध्नाति ॥१४॥ १५. पृ पूरणे। पारयति, पार्यते । अनुपसर्गाल्लिम्पविन्द (३।१। १३८) इति शः–पारयः । बादौ (३।४) पिपति, ऋयादौ (९।१८) पृणाति । पृ इति दुर्गः-पारः॥१५॥ ... १६. ऊर्ज बलप्राणनयोः । प्राणनं जीवनम् । ऊर्जयति । ऊर्जनम्, ऊर्जस्विनि (?, ऊर्जस् इति ) प्राप्ते भ्राजभास (३।२।१७७) इति क्विप् -ऊ, ऊर्जस्विन् (द्र० ५।२।११४) इति निपातनाद् असन्तोऽप्यस्ति ॥१६॥ १७. वर्ण वर्णने । वर्णयति । पक्ष परिग्रह इत्येके । पक्षयति ।१७ १५ __.. १८. चूर्ण प्रेरणे । प्रेरणं दलनम् । चूर्णयति । चूर्ण पेषण इति चन्द्रः ॥१८॥ १६. पर्थ प्रक्षेपणे । पर्थयति । पृथ इत्येके ॥१९॥ २०. साम्ब संबन्धे । साम्बयति । साम्बः । चन्द्रः शम्ब इत्याह --शम्बलम् ॥२०॥ २१. भक्ष अदने । भक्षयति । शीलिकामिभक्ष्याचरिभ्यो णः (३। २।१ वा०)-मांसभक्षा। भक्षतेर्घञ्-भक्षः ॥२१॥ १. मुद्रिते चान्द्रधातुपाठे नास्ति । धातुवृत्तिकारोऽपि चन्द्रनाम्ना उद्धरतीमं पाठम् । २. स्मृतं पुरुषकारे (पृष्ठ ४१)। ३. द्र० क्षीर० ११४४७ (पृष्ठ ६८)। ४. नैव पठ्यते मुद्रिते चान्द्रधातुपाठे। .. ५. धातुवृत्तौ स्वामिनाम्ना 'पथ इत्येके' इति पाठ उध्रियते (पृष्ठ ३८०)। ६. साम्ब इति केचिद्' इत्येवं स्मर्यते धातुवृत्तौ (पृष्ठ ३८०)। ७. 'शम्ब इत्येके' इति स्वामिनांम्ना पठ्यते धातुवृत्तौ (पृष्ठ ३८०)। चान्द्रधातुपाठे नोपलभ्यते धातुः । ३० २० २५
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy