Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust
________________
३०.
क्षीरतरङ्गिण्यां सिद्धे स्वार्थणिजर्थः पाठः, कर्बभिप्रायक्रियाफले" इति परस्मैपदं यथा स्यात, नियमार्थं वा-ज्ञपयमादिवर्ज नान्ये स्वार्थण्यन्ता मित इति । यमादीनां मित्त्वमवश्यं वाच्यम्, ज्ञपेस्तु सौकर्यार्थमनुवाद इत्येके । संज्ञपयति पशुम्, विज्ञपयति गुरुम्, प्रज्ञपयति शस्त्रम् । प्राज्ञप्तः, आज्ञपित: (द्र० ७।२।२७) । विज्ञप्य गुरुम्, प्रज्ञाप्य' धर्मम्, प्राज्ञाप्य' भृत्यमिति यथाकथंचित् तोषणे । एवं जिज्ञपयिषति जीप्सति । बोधनेऽप्यनेकार्थत्वान् मित्वमित्येके, ज्ञप्तिज्ञानयोरेकार्थत्वात् ॥८५।।
७६. यम परिवेषणे । यमयति । यम च इति दुर्गः, चकारः किलास्यैव मित्वमाकष्टम, चमादीनां मा भूदिति । यम चम इति चन्द्रः १० पारायणे । अत एव न कम्यमिचमाम यमोऽपरिवेषणे (११५५७,
५५६) इति च विरोधान्नाध्यगीष्ट, इहापि यमोऽपरिवेषणे इत्येके पठन्ति ।।८६॥
७७. चह कल्कने । चहयति । चप इति चन्द्रः५ रह त्यागे इत्येके, तन्न, कथादिना (१०।२५४) सिद्धेः ॥८७॥
७८. बल प्राणने । बलयति । भ्वादौ (१।५७६) बलति ॥८॥
७६. चित्र चये। चययति । इति प्रमाणवत्वाद अध्यायानाम, चिस्फुरोर्णो (६।१।५४) प्रात्वं मित्त्वे किंकृतं स्यात् ? एतदन्तं मित्त्वान्वृत्तेः-चपयति । नित्त्वमनित्यण्यन्तत्त्वे लिङ्गम् - चयते, चयति । स्वादौ (५५) चिनोति, चिनुते । हेतौ । चापयति ।।८६॥
१. णिचश्च (१।३।७४) इति हेतुमण्ण्यन्तादेव कर्बभिप्राये क्रियाफल आत्मनेपदं शास्ति, न स्वार्थणिच इत्युक्तं चुर-धातौ स्वामिना। तेन कर्जभिप्रायेऽपि परस्मैपदं यथा स्यादिति इह पाठ इति स्वाम्यभिप्रायः । लिबिशेन त्वैतदबुध्वा इह प्रात्मनेपदविधायकसूत्रस्य ११३७२ संख्या निर्दिष्टा, न तस्यात्र किञ्चित् कार्यम् ।
२. विज्ञप्यवत् 'प्रज्ञप्य' 'विज्ञप्य' इति शुद्धः पाठोऽत्र द्रष्टव्यः, यथाकथंचित् तोषणार्थस्य स्वीकारात्। ३. मुद्रिते चान्द्रधातुपाठे नोपलभ्यते पाठः ।
४. पारायणव्याख्यानात्' पाठा० । चान्द्रधातुपाठस्य पारायणनामकं व्याख्यानं पूर्णचन्द्रकृतमिति बोध्यम् ।
५. मुद्रिते चान्द्रधातुपाठे नोपलभ्यते। ३० ६. मृतं धातुवृत्तौ (पृष्ठ ३८४)। ७. कोऽभिप्राय इति न ज्ञायते ।
Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444