SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३०. क्षीरतरङ्गिण्यां सिद्धे स्वार्थणिजर्थः पाठः, कर्बभिप्रायक्रियाफले" इति परस्मैपदं यथा स्यात, नियमार्थं वा-ज्ञपयमादिवर्ज नान्ये स्वार्थण्यन्ता मित इति । यमादीनां मित्त्वमवश्यं वाच्यम्, ज्ञपेस्तु सौकर्यार्थमनुवाद इत्येके । संज्ञपयति पशुम्, विज्ञपयति गुरुम्, प्रज्ञपयति शस्त्रम् । प्राज्ञप्तः, आज्ञपित: (द्र० ७।२।२७) । विज्ञप्य गुरुम्, प्रज्ञाप्य' धर्मम्, प्राज्ञाप्य' भृत्यमिति यथाकथंचित् तोषणे । एवं जिज्ञपयिषति जीप्सति । बोधनेऽप्यनेकार्थत्वान् मित्वमित्येके, ज्ञप्तिज्ञानयोरेकार्थत्वात् ॥८५।। ७६. यम परिवेषणे । यमयति । यम च इति दुर्गः, चकारः किलास्यैव मित्वमाकष्टम, चमादीनां मा भूदिति । यम चम इति चन्द्रः १० पारायणे । अत एव न कम्यमिचमाम यमोऽपरिवेषणे (११५५७, ५५६) इति च विरोधान्नाध्यगीष्ट, इहापि यमोऽपरिवेषणे इत्येके पठन्ति ।।८६॥ ७७. चह कल्कने । चहयति । चप इति चन्द्रः५ रह त्यागे इत्येके, तन्न, कथादिना (१०।२५४) सिद्धेः ॥८७॥ ७८. बल प्राणने । बलयति । भ्वादौ (१।५७६) बलति ॥८॥ ७६. चित्र चये। चययति । इति प्रमाणवत्वाद अध्यायानाम, चिस्फुरोर्णो (६।१।५४) प्रात्वं मित्त्वे किंकृतं स्यात् ? एतदन्तं मित्त्वान्वृत्तेः-चपयति । नित्त्वमनित्यण्यन्तत्त्वे लिङ्गम् - चयते, चयति । स्वादौ (५५) चिनोति, चिनुते । हेतौ । चापयति ।।८६॥ १. णिचश्च (१।३।७४) इति हेतुमण्ण्यन्तादेव कर्बभिप्राये क्रियाफल आत्मनेपदं शास्ति, न स्वार्थणिच इत्युक्तं चुर-धातौ स्वामिना। तेन कर्जभिप्रायेऽपि परस्मैपदं यथा स्यादिति इह पाठ इति स्वाम्यभिप्रायः । लिबिशेन त्वैतदबुध्वा इह प्रात्मनेपदविधायकसूत्रस्य ११३७२ संख्या निर्दिष्टा, न तस्यात्र किञ्चित् कार्यम् । २. विज्ञप्यवत् 'प्रज्ञप्य' 'विज्ञप्य' इति शुद्धः पाठोऽत्र द्रष्टव्यः, यथाकथंचित् तोषणार्थस्य स्वीकारात्। ३. मुद्रिते चान्द्रधातुपाठे नोपलभ्यते पाठः । ४. पारायणव्याख्यानात्' पाठा० । चान्द्रधातुपाठस्य पारायणनामकं व्याख्यानं पूर्णचन्द्रकृतमिति बोध्यम् । ५. मुद्रिते चान्द्रधातुपाठे नोपलभ्यते। ३० ६. मृतं धातुवृत्तौ (पृष्ठ ३८४)। ७. कोऽभिप्राय इति न ज्ञायते ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy