SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ चुरादिगणः (१०) ३०१ ८०. नान्ये मितोऽहेतौ च । अन्ये ज्ञपादिपञ्चकात् स्यमशमघटनटश्रणादयोऽहेतौ चौरादिके णिचि न मित्संज्ञाः-निशामयते, उद्घाटयति, एतच्चन्द्रो नैच्छत्', घटादीनां चेष्टादौ मित्वाद, योजनादावप्रसङ्गात्- झटिति घटयति विधिरभिमतमभिमुखीभूतः । ८१. घट्ट चलने । घट्टयति । घट्टना। घट्टो नद्यवतरणस्थानम्, ५ अरघट्टः ॥१०॥ ८२. खट्ट संवरणे। खट्टयति मुखम् ॥११॥ ८३. सट्ट हिंसायाम् । सट्टयति । सट्टकः ।।१२।। ८४. व्यय क्षये । व्याययति । चन्द्रो व्यत्रा (१७३६) सिद्धिं मन्यते । व्यप व्यय इति कौशिकः, व्यदि व्यय इति नन्दी--प्रव्युन्द- १० यति ॥१३॥ ८५. पूल संघाते । पूलयति, पूला । पूर्ण' इत्येके ॥१४॥ ८६. पुस अभिमर्दने । उत्पुसयति ॥६५॥ .८७. मुस्त संघाते। [मुस्तयति ॥६६॥ ८८. टकि बन्धने । टङ्कयति । टङ्कना । टङ्कनम् । टङ्कः, विटङ्कः १५ ॥७॥ ८६. धूष कान्तिकरणे । धूषयति । तालव्यान्त इत्येके, दन्त्यान्त इति दौर्गाः-धूसरः ॥१८॥ ६०. कीट वरणे । कीटयति । कीटः ॥६६॥ ___६१. चूण संकोचने। चूणयति । चूर्ण इत्येके, तूण इति चन्द्रः- २० तूणीरः ॥१००॥ ६२. पूज पूजायाम् । पूजयति । चिन्तिपूजि (३।३।१०५) इति १ इयमनिच्छा तेन स्वधातुव्याख्याने प्रकटीकृता स्यात् ? २. अनुपलब्धमूलमिदम् । ३. 'पुर्ण' इति धातुवृत्तौ (पृष्ठ ३८५)पुरुषकारे (पृष्ठ १०८) च पाठः । २५ ५. स्मृतं धातुवृत्तौ (पृष्ठ ३८५) । ५. सर्वकोशेष्वित्थमेव पठ्यते । 'वणे' इति धातुवृत्तौ (पृष्ठ ३८५) ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy