________________
ऋयादिगणः (8)
२८५ वरिता वरीता,, वतो वा (७।२।३८) दीर्घः । विवरिता' विवरीता। अवृत, अवरिष्ट,प्रवरीष्ट । वुवर्षते, विवरिषते, विवरीषते । जल्पभिक्ष (३।२।१५५) इति षाकन् - वराकः । वृङ एन्यः (तु० दश० उ० ८। ३) वरेण्यः । वर्वरीका। ग्रहवृदृनिश्चिगमश्च (३।३।५८) अप् -- वरः । स्वादौ वृज वरणे (५६)-वृणोति, वृणुते ॥३७॥ ५५
४४. श्रन्थ विमोचनहर्षयोः । इतो द्वादश सेट: परस्मैपदिनश्च । श्रथ्नाति । श्रथित्वा श्रन्थित्वा । यकचिणोः प्रतिषेधे श्रन्थग्रन्थब्रज्ञात्मनेपदाकर्मकाणाम् उपसंख्यानम् (तु० ३।१।८६ वा०)-श्रथ्नीते माला स्वयमेव, अश्रन्थिष्ट । श्रन्थिग्रन्थिदन्भिस्वजीनां (तु० ११२६ काशिका) लिट: कित्त्वं, एत्वं चोपसंख्यायते--श्रेथः। चुरादौ श्रन्थ १० ग्रन्थ संदर्भ (१० २२६) वा णिच- श्रन्थयति श्रन्थति । ग्रन्थयति ग्रन्थति । भ्वादौ श्रथि शैथिल्ये, प्रथि कौटिल्ये (१।२६,३०)-श्रन्थते, ग्रन्थते ॥३८॥ . ४५. मम्थ विलोडने। मथ्नाति । भ्वादौ (१।३७) मन्थति, तथा मथे विलोडने (१॥५८४)- मथति ॥३६॥
४६. ग्रन्थ सन्दर्भ। संदर्भो बन्धनम् । ग्रथ्नाति । ग्रन्थनम् । श्रथ्नातिवद् उदाहार्यम् ॥४०॥
१. सर्वहस्तलेखेषु पठ्यते। २. 'हर्षनयोः' 'प्रहर्षनयोः' प्रतिहर्षनयोः पाठान्तराणि । ३. 'द्वादशः' सर्वहस्तलेखेषु । 'द्वाविंशतिः' इति युक्तः पाठः । ४. 'नोपधात्थफान्ताद्वा' (१।२।२३) किद्विकल्पः ।
५. अत्र तरङ्गिण्यां. पाठभ्रंशः प्रतीयते । तथा ह्याह पुरुषकार:- 'संदर्भ श्रथनक्रियायां श्रन्थग्रन्थधातू वर्तेते इति क्षीरस्वामी' (पृष्ठ ७६) अत्र 'श्रथनक्रियायाम्' इत्यस्य स्थाने ग्रन्थनक्रियायाम्' पाठो द्रष्टव्यः । इदं पुरुषकारवचनं सायणोऽप्युदाजहार-'पुरुषकारेऽपि........ सन्दर्भ ग्रथनक्रियायां श्रन्थिग्रन्थि- २५ धातू वर्तेते इति क्षीरस्वामीत्युक्तम्' (धातु० पृष्ठ ३७३) । स्वयं क्षीरस्वाम्यपि भ्वादौ "क्रयादौ श्रन्थ ग्रन्थ संदर्भ" (१।३०) इत्याह । तेनात्र 'श्रन्थ ग्रन्थ सन्दर्भ' इति क्षीरस्वामिनः पाठः स्यात् । अर्थभेदात् श्रन्थि: पुनरत्र पठितः । एवं सन्दर्भो बन्धनम्' इत्यस्य स्थाने 'सन्दर्भो ग्रन्थनम्' इति स्यात् ।
६. 'श्रन्थिवत्' पाठा०।
Po.