________________
१०
२८६
क्षीरतरङ्गिण्यां
४७. कुन्य श्लेषणे' । कुथ्नाति । कुन्थित्वा कुथित्वा । कुथो हस्तिपल्याणम् । कुथा । कुथि इति दुर्ग: ॥ ४१ ॥
I
.२०
1
४८. मृद क्षोदे । मृद्नाति । मृद्यते - मृत् । मृदस्तिकन् ( ५|४| ३९ ) - मृत्तिका । मृडमृद ( १।२।७ ) इति क्त्वा कित् - मृदित्वा । ४२ । ४६. मृड सुखने । मृड्नाति । मृडित्वा । तुदादौ ( ६ । ३६ ) मृडति । मृडः । मृडीकं हिरण्यम् ॥४३॥
५१. कुष निष्कर्षे । निष्कर्षो बहिष्करणम् । कुष्णाति । कर्मकर्तरि कुषिरजोः प्राचां श्यन् परस्मैपदं च ( ३।१।६० ) – कुष्यति पादः स्वयंमेव । निरः कुषः (७।२।४६ ) इड् वा - -निष्कोषिता निष्कोष्टा, निरकोषीत् निरकुक्षत् । इण् निष्ठायाम् ( ७।२।४७ ) - निष्कुषितः । मृडमृद (१२/७ ) इति क्त्वा कित् - कुषित्वा । हनिकुषि ( उ० २ २ ) इति क्थन् -- कुष्ठम् । उषिकुषि ( उ० २।४ ) इति थन् - कोष्ठम् उदरम् । वाहुलकात् (३ | ३ | १ ) प्रकोष्ठो विस्तृतकरः । उचिकुसि - कुषिभ्यः कितन' ( दश० उ० ६ । २१ कपाठः) कुषितम् । प्लुषिशुषिकुषिभ्यः क्सिः ( दश० उ० १1११) कुक्षि: । कुठिकुषिभ्यां काकुः ( दश० उ० १।१५० कपाठः ) कुषाकुः || ४५ ||
१५
५०. गुध रोषे । गुध्नाति । गुधित्वा । गुधेरूम: ( उ०५/२ ) गोधूमः । भिदादौ - ( द्र० ३ | ३|१०४) गोधा तलत्राणम्' । दिवादी गुध परिवेष्टने (४११२ ) - गुध्यति ॥४४॥
५२. क्षुभ संचलने । क्षुम्नाति क्षुभ्नादित्वात् ( द्र० ८ ४३६) णत्वाभावः । क्षुब्धस्वान्त ( ७।२।१८) इति क्षुब्धो मन्थश्चेत्, क्षुभितोऽन्यः । प्रक्षोभीत् । दिवादी ( ४११३०) क्षुभ्यति, प्रक्षुभत् । भ्वाद (१४६९) क्षोभते ॥ ४६॥
१. अत्राह पुरुषकारः - ' संश्लेषणे संश्लेषण क्रियायाम् इति क्षीरस्वामी' २५ (पृष्ठ ७७ ) । स्वयं स्वामिना १३७ धातुसूत्रव्याख्याने 'यादो कुन्थ संश्लेषणे '
इत्युच्यते । तेनात्र पाठ भ्रंशः संजातः स्यात् ।
२: ‘गोधातले ज्याघातवारणे इत्यमरः ( २।८।८५ ) ।
३. अत्र लिबिशेन मूलोणादिसूत्रसंख्यामनिर्दिश्य हैमोणादिसूत्र संख्या २१२ तुलनाय निर्दिष्टा ।