________________
२८४
क्षीरतरङ्गिण्यां
अनुपसर्गाज ज्ञः (१।३।७६) उभयम्, नेह-अवजानासि मां मूढ ? अपह्नवे ज्ञः (११३।४४) तङ – शतम् अपजानीते । सम्प्रतिभ्यामनाध्याने (१।३।४६) संजानीते, प्रतिजानीते । ज्ञाश्रुस्मृदृशां सनः (१।३।
५७) तङ–जिज्ञासते । नानोर्जः-(१।३।५८)-पुत्रमनुजिज्ञासति । ५ ज्ञोऽविदर्थस्य करणे (१।३।५८) षष्ठी-सर्पिषो जानीते । वान्यस्य
संयोगादेः (६।४।६८) एत्वम् -ज्ञेयात् । ज्ञायात् । मारणतोषण (१॥ ५४८) इति मित्-संज्ञपयति । सनीवन्तर्घ (७१२ ४६) इति वेट -- जिज्ञपयिषति, अनिट्पक्षे प्राप्जप्यधामीत् (७।४।५५) जीप्सति । इगुपधज्ञा (३।१।१३५) इति कः-ज्ञः । प्रे दाज्ञः (३।२।६)-पथिप्रज्ञः । वा दान्तशान्त (७।२।२७) इति' संज्ञप्तः, संज्ञपितः । प्रात
चोपसर्गे (३।३।१०६)-प्रज्ञा । ज्ञायते-ज्ञातिबन्धः । ज्ञानं ज्ञातिरिति नास्ति, प्रसिद्धेनापहृतत्वात् ॥३५॥
३६. अनुदात्ताः ।
४०. बन्ध बन्धने । ४१. अनुदात्त उदात्तत् । बध्नाति । बधान - १५ हलः श्नः शानज्झौ (३।११८६) । अभान्त्सीत् -एकाचो बशो भए
झषन्तस्य स्ध्वोः (८।२।३७) । बन्धकी। उलूकादौ (द्र० उ० ४। ४१) बन्धूकम् । शुस्वस्निहि (उ० ११११) इति बन्धुः–इषितिमिमदि (दश० उ० ८२६ कपाठः) इति किरच - बधिरः । बन्धेबंधिबुधि च (दश० उ० ५।३८) इति नः-बध्नः सूर्यः, बुध्नो मूलम् । अधिकरणे बन्धः (३।४।४१) णमुल --हस्तबन्ध बद्धः । संज्ञायां च (कातन्त्र कृत् ४५६) कुक्कुटीबन्धं बद्धः ॥३६॥
४२. वृङ् संभक्तौ । ४३. उदात्तः। संभक्तिः संसेवा। वृणीते। १. इतोऽग्रे 'विज्ञप्तः' इत्यधिकं क्वचित् । २. भावे क्तिन् न भवतीत्यर्थः ।
३. लि बिशेनात्र पाणिनीयसूत्रनिर्देश इति मत्वा चकारमाकृष्य मध्येऽष्टाध्यायीसूत्रसंख्या प्रदत्ता। क्षीरस्वामिनाप्यत्र पूर्वं पाणिनिसूत्रं निर्दिश्य तदनन्तरं स्मृतिभ्रान्त्या कातन्त्रसूत्रमुद्धृतम् । कातन्त्रे त्वित्थं सूत्रपाठः – 'बन्धोऽधिकरणे च (४५५) संज्ञायां च' (४५६) । क्षीरस्वाम्यन्यत्रापि पाणिनिमूत्रप्रदर्शनावसरे स्मृतिभ्रान्त्या कातन्त्रसुत्रमुद्धरति ।