Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १९ ।
विगतमत्सराया मम न तथा नखपदादि चिह्नं भवदङ्गसङ्ग खेदावहं यथा— अर्धनिष्पन्नसंभोगतयाऽधरदशना संपत्तिरितीयकोपगोपनमुपभोगोद्भेदेन कृतं - वाच्योऽर्थः । तद्बलसमुत्थस्तु -सहदयोत्प्रेक्षितोऽत्यन्तवाल्लभ्यान्मुखचुम्बनपर एव तस्यास्त्वं यत् त्वदधरखण्डनावसरोऽस्या वराक्या न संपन्न इति न केवलं तस्या भवातिलभो यावद्भवतोऽपि सा सुतरां रोचत इति वयमिदानीं त्वत्प्रेमनिराशाः संजाता इति नायिकाभिप्रायो - व्यङ्ग्यः । कचिद्वाच्याद विभिन्नविषयत्वेन व्यवस्थापितो यथा“कस्स व न होइ रोसो दट्टण पिआइ सव्वणं अहरं सभमर पउमग्याइरि वारिअवामे सहसु इहि ॥ [सं० श० ८८६ ]
wwwwwww
भूषितमङ्गं यस्य तादृशः, निद्रया
कान्तं प्रत्याह-नवमुखैः- नखाघातैः, प्रसाधितं घूर्णन्ती लोचने यस्य स त्वं तथा मम हृदयं न दूनयसि यथा, हे श्यामलाङ्ग ! निर्वणाधरः- नायिकाकर्तृका धरपानसूचक चिह्नरहिताधरः मम हृदयं दूनयसि - दुःखीकरोषीत्यन्वयः । अत्र किं वाच्यं किं वा व्यंग्यमिति वृत्तावेव स्पष्टम् तथा हि-विगतमत्सरायाः त्वामन्योपभोगचिह्नितमपि विलोक्य मत्सरेण
,
―
२२३
>
या रहिताया मम भवदङ्गसङ्गि नखपदादिचिह्न, मत्सपत्नीकृतं भवदङ्गे वर्त्तमानं नखाघातादि चिह्न तथा अत्यन्तं न खेदावहं दुःखजनकं, यथाऽर्धनिष्पन्नसम्भोगतयाऽधरदशनस्यासम्पत्तिः अधरस्य निर्व्रणत्वेन तयाsधरो न दृष्ट इति सम्भोगस्यार्धनिष्पन्नत्वं प्रतीतम्, खेदावहेति, उपभोगोद्भेदेन सपत्नीसंगम प्रकटनपूर्वकम्, ईर्ष्या कोपगोपनं कृतं वाच्योऽर्थः । तद्बलसमुत्थस्तु - - वाच्यार्थेन प्रतीयमानस्तु "अत्यन्तवाल्लभ्यात् तस्या अतिशयवल्लभावेन त्वं स्वयमेवान्तं यावत् मुखचुम्बनपर आसीः, यत् यस्मात् अस्या वराक्याः [ व्यञ्जनया महाभाग्यायाः ] तवाधरस्य खण्डनायावसर एव न त्वया दत्तः, इति न केवलं तस्या भवानतिवल्लभः [ नखपदा दिसूचितत्वात् ] किन्तु [ निर्वणाधरत्वेन सूचिता ] साऽपि तवातिवल्लभेति वयमिदानीं त्वत्प्रेमनिराशा इत्यादि नायिकायाः अभिप्रायः” व्यङ्ग्यः सहृदयैरुत्प्रेक्षित इति ॥
इत्थं कथञ्चिद्वाच्यसम्बद्धान् व्यङ्ग्यानुदाहृत्य साम्प्रतं वाच्याद् विभिन्न विषयं व्यङ्गयमुदाहरति-कस्स व ण होइ इति । "कस्य वा न भवति
For Private And Personal Use Only

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340