Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 312
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १ सू० २४ । अत्र मिलाणकमलदलमिति रूपकेण म्लानत्वान्यथानुपपत्तेस्त्वयाऽस्य मुहुर्मुहुः परिचुम्बनं कृतमित्यनुमानं व्यज्यते । वाक्ये यथा "स वक्तुमखिलान् शक्तो हयग्रीवाश्रितान् गुणान् । योऽम्बु कुम्भैः परिच्छेदं शक्तः कर्तु महोदधेः " ॥ ७७ ॥ [ ] २८३ अत्र निदर्शनेन हयग्रीवगुणानामवर्णनीयताप्रतिपादनरूपोऽसाधारणतद्विशेषप्रकाशनपर आक्षेपो व्यज्यते । रात्रावतिशय चुम्बितदयिताधरां वधूं प्रति कस्याश्विदुक्तिरियम् तव वल्लभस्य दयितस्य, प्रभाते प्रातःकाले, अधरः अधरोष्ठः, म्लानं यत् कमलदल तद्रूप आसीत्, इति सखीवचनं श्रुत्वा नववधूः नवोढा नायिकाः वदनं मुखं, लज्जया, मह्या:- भूमेः, सम्मुखम् - अधोमुखं, करोति विधत्ते, प्रभाते आसीदित्यनेन तावत्कालं चुम्बनाविरामः सूचितः । अत्र किं केन व्यङ्ग्यमित्याहअत्र मिलाणकमलदलमिति । तथा च रूपकालङ्कारेणाधरस्य चुम्बनान्यकारणान्म्लानत्वमनुपपन्नमिति मुहुर्मुहुश्रम्बनं कृतमिति व्यक्त्याऽनुमानाख्योseङ्कारो व्यज्यते, " हेतोः साध्यावगमोऽनुमानम्” [अ० ६ सू० २३] अन्यथानुपपत्त्यै कलक्षणाद्धेतोः साध्यस्य- जिज्ञासितस्यार्थस्य प्रतीतिरनुमानमिति तल्लक्षणात् काव्यप्रकाशे चात्र काव्यलिङ्गालङ्कार उक्तः, किन्तु स्वमते तस्यानुपान एवान्तर्भाव इति ज्ञेयम् ॥ 3 " वाक्यगतालङ्कारेणालङ्कारध्वनिमुदाहरति-स वक्तुमखिलानिति - स हयग्रीवं तदाख्यमसुरम्, आश्रितान्, अखिलान् गुणान् वक्तुं शक्तः समर्थः स्यात्, यः, अम्बुकुम्भैः जलघटैः, महोदधेः परिच्छेदं कर्तुं ज्ञातुं शक्त इत्यर्थः । यथाऽम्बु कुम्भैर्महोदधेः परिमाणं कर्तुमशक्यं तथा हयग्रीवगुणा वर्णयितुमशक्या इति वाच्येन निदर्शनालङ्कारेण हयग्रीवगुणानां कथनाशक्यत्वनिषेधादाक्षेपालङ्कारो ध्वन्यते, तदाह - अत्र निदर्शनेनेति । विशेषविवक्षया वकुमिष्टस्य प्रधानस्याशक्यवक्तव्यमति सिद्धत्वं वा विशेषं वक्तुं निषेध इवेति तल्लक्षणं संगमयतिअसाधारणतद्विशेषप्रतिपादनपर इति असाधारणो यस्तद्विशेषोऽवर्णनीयतातिशयस्तत्प्रकाशनपर इत्यर्थः ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340