________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १ सू० २४ ।
अत्र मिलाणकमलदलमिति रूपकेण म्लानत्वान्यथानुपपत्तेस्त्वयाऽस्य मुहुर्मुहुः परिचुम्बनं कृतमित्यनुमानं व्यज्यते ।
वाक्ये यथा
"स वक्तुमखिलान् शक्तो हयग्रीवाश्रितान् गुणान् । योऽम्बु कुम्भैः परिच्छेदं शक्तः कर्तु महोदधेः " ॥ ७७ ॥ [
]
२८३
अत्र निदर्शनेन हयग्रीवगुणानामवर्णनीयताप्रतिपादनरूपोऽसाधारणतद्विशेषप्रकाशनपर आक्षेपो व्यज्यते ।
रात्रावतिशय चुम्बितदयिताधरां वधूं प्रति कस्याश्विदुक्तिरियम् तव वल्लभस्य दयितस्य, प्रभाते प्रातःकाले, अधरः अधरोष्ठः, म्लानं यत् कमलदल तद्रूप आसीत्, इति सखीवचनं श्रुत्वा नववधूः नवोढा नायिकाः वदनं मुखं, लज्जया, मह्या:- भूमेः, सम्मुखम् - अधोमुखं, करोति विधत्ते, प्रभाते आसीदित्यनेन तावत्कालं चुम्बनाविरामः सूचितः । अत्र किं केन व्यङ्ग्यमित्याहअत्र मिलाणकमलदलमिति । तथा च रूपकालङ्कारेणाधरस्य चुम्बनान्यकारणान्म्लानत्वमनुपपन्नमिति मुहुर्मुहुश्रम्बनं कृतमिति व्यक्त्याऽनुमानाख्योseङ्कारो व्यज्यते, " हेतोः साध्यावगमोऽनुमानम्” [अ० ६ सू० २३] अन्यथानुपपत्त्यै कलक्षणाद्धेतोः साध्यस्य- जिज्ञासितस्यार्थस्य प्रतीतिरनुमानमिति तल्लक्षणात् काव्यप्रकाशे चात्र काव्यलिङ्गालङ्कार उक्तः, किन्तु स्वमते तस्यानुपान एवान्तर्भाव इति ज्ञेयम् ॥
3
"
वाक्यगतालङ्कारेणालङ्कारध्वनिमुदाहरति-स वक्तुमखिलानिति - स हयग्रीवं तदाख्यमसुरम्, आश्रितान्, अखिलान् गुणान् वक्तुं शक्तः समर्थः स्यात्, यः, अम्बुकुम्भैः जलघटैः, महोदधेः परिच्छेदं कर्तुं ज्ञातुं शक्त इत्यर्थः । यथाऽम्बु कुम्भैर्महोदधेः परिमाणं कर्तुमशक्यं तथा हयग्रीवगुणा वर्णयितुमशक्या इति वाच्येन निदर्शनालङ्कारेण हयग्रीवगुणानां कथनाशक्यत्वनिषेधादाक्षेपालङ्कारो ध्वन्यते, तदाह - अत्र निदर्शनेनेति । विशेषविवक्षया वकुमिष्टस्य प्रधानस्याशक्यवक्तव्यमति सिद्धत्वं वा विशेषं वक्तुं निषेध इवेति तल्लक्षणं संगमयतिअसाधारणतद्विशेषप्रतिपादनपर इति असाधारणो यस्तद्विशेषोऽवर्णनीयतातिशयस्तत्प्रकाशनपर इत्यर्थः ॥
For Private And Personal Use Only