________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने wwwwwwwwwwwmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm वाक्ये यथा
"गाढालिंगणरहसुजयम्मि दइए लहुं समोसरइ । माणसिणीणं माणो पीलणभीउव्व हियआओं" ॥ ७५॥
अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि तत्र जृम्भत इति वस्तु व्यज्यते । अलङ्कारेणालङ्कारः पदे यथा--
"तुह वल्लहस्स गोसम्मि आसि अहरो मिलाण कमलदलं । इय नववहुआ सोऊण कुणइ वयणं महीसमुहं" ॥ ७६ ॥ ।
] . उपमाया वस्तुव्यञ्जकत्वं च पूर्वप्रदर्शिते “शिखरि क्व नु नाम" इति पद्ये 'अधरपाटलं' इति समासोपमया अभिलाषात्मक वस्तु व्यज्यत इति । एवमन्येऽप्यलकारा वस्तुव्यञ्जकत्वे उदाहार्याः ॥
पदगतालङ्कारैर्वस्तुध्वनिमुदाहृत्य वाक्यगतालङ्कारेण वस्तुध्वनिमुदाहरतिगाढालिंगणेति। "गाढालिङ्गनरभसोद्यते दयिते लघु समपसरति । मनस्विनीनां मानः पीडनभीरुरिव हृदयात् ॥” इति संस्कृतम्। मानवती प्रति मानमङ्कायापरमानवतीवृत्तान्तं बोधयन्त्याः कस्याश्चिदुक्तिरियम्-दयिते प्रिये, गाढालिङ्गनाय, रभसेन-वेगेन हर्षेण वा, उद्यते सति, उद्युक्त एव न त्वाचरितवति, मनस्विनीनां वशीकृतमानसानामपि, मानः "स्त्रीणामीाकृतः कोपो मानोऽन्यासङ्गिनि प्रिये" इत्युक्तलक्षणः कोपः, पीडनाद् भीरुरिव, हृदयात् , लघु शीघ्रं गुप्तं वा, समपसरति निःशेषतो गच्छतीत्यर्थः । एवं च तादृश्याः स्वाधीनचित्ताया अपि मानो यदि तावन्मात्रेणैव गतस्तर्हि अतादृश्यास्तव गमिष्यतीति किं वक्तव्यमित्यवश्यंभाविनि मानमङ्गे किमित्यात्मानं वञ्चयसीति भावः ॥ अत्र केन किं व्यज्यत इत्याह-अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि इति-पीडनभीरुरिवेति भयोस्प्रेक्षारूपेणालङ्कारेणात्यन्तिकमाननिवृत्तौ सत्यां प्रत्यालिङ्गनसहासवचनादि तत्र जृम्भते-बहु भवतीति वस्तु द्योत्यते इत्यर्थः ॥ अलङ्कारेण वस्तुध्वनि पदवाक्यगतमुदाहृत्यालङ्कारेणालङ्कारध्वनिमुदाहरति, तत्र प्रथमं पदगतालङ्कारेणालङ्कारध्वनिर्यथा-तुह वल्लहस्सेति । “तव वल्लभस्य प्रभाते आसीदधरो म्लानकमलदलम् । इति नववधूः श्रुत्वा करोति वदनं महीसम्मुखम् ॥” इति संस्कृतम् ।
For Private And Personal Use Only