Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २४ ।
अमुं कनकवर्णाभं बालमप्राप्तयौवनम् । गृध्रवाक्यात् कथं बालास्त्यक्ष्यध्वमविशङ्किताः ॥ ८० ॥ [ म० भा० शा० प० अ० १५२ श्लो. - १९. ६५. ] इति निशि विजृम्भमाणस्य गोमायोजनव्यावर्तननिष्ठं चेति प्रबन्धप्रतिपाद्येनार्थेन गृध्र-गोमाय्वोर्भक्षणाभिप्रायो व्यज्यते । एवं मधुमथनविजये पाञ्चजन्योक्तिषु विषमबाणलीलायां कामदेवस्य सह
wwwwww
,
राक्षसबेलावाद् भूतावेशादिविनबहुलः, अतश्च सन्ध्यायामनीतायां कदाचित तदा वेशाद्यपगमाज्जीवेदपीति सम्भाव्यते । पुनरपि [ जीवने संभाविते ] मोहजननायाह- अमुमिति, यूयम्, अविशङ्किताः लोकापवादशङ्कारहिताः, गृधवाक्यात् मांसलुब्धस्य गृध्रस्य वाक्यात् मूढाः मोहमज्ञानमुपगताः, कनकवर्णाभं स्वर्णसमानकान्तिम्, अप्राप्तयौवनम्, अतो बालम्, अमुं कथं त्यजध्वम् । कनकवर्णाभमित्यनेन साम्प्रतमपि वर्णविकृतिर्मृत्युचिह्नं न जातम्, अप्राप्तयौवनमित्यनेन परस्त्रीसंसर्गादिपातकजन्यायुः क्षयाभावश्च सूचितः । अत्र प्रबन्धे पूर्वं श्मशाने स्थिति निषेधतो गृध्रस्य 'विसर्जयतेमं गच्छत च यूयं येनाहं दिवसे भक्षयेयम्' इति तात्पर्यमवगम्यते, परत्र च यथाकथञ्चित् सूर्यास्तं याचदेते तिष्ठन्तु पश्चादेषु गतेषु रात्रौ सत्यां मदीयं मांसभक्षणस्वातन्त्रयमिति गोमायोराशयः प्रबन्धेनानेन प्रतीयते । तदुक्तम् इति दिवा प्रभवतो गृध्रस्येत्यादिना, इति निशि विजृम्भमाणस्येत्यादिना च । एवं किञ्चित् प्रबन्धविषये ध्वनिमुक्तत्वाऽन्यत्रापि वदतिदिशति - मधुमथन विजये पाञ्चजन्योक्तिष्विति । तत्र यथा - "लीला दाढग्गुवूढसयलमहिमंडलस्स चित्र अज । कीस मुणालाहरणं पितुज गरूआइ अंगम्मि ॥" [ म० वि० ] इति “लीलादंष्ट्रा प्रोदूढ सकलमहीमण्डलस्यैवाद्य । कस्मान्मृणालाभरणमपि ते गुरूयतेऽङ्गे ॥” इति संस्कृतम् । मधुमथनविजयं नाम नाटकमद्यत्वे नोपलभ्यते, विवेकोचलोचनानुसारिपाठेन यथाकथञ्चिद्व्याख्यायते-रुक्मिण्या विरहेण क्षीणं वासुदेवमकथित स्वाभिप्रायं पाञ्चजन्यस्तदीयविरहवैधुर्यावस्थावर्णनेन प्रकटयति — लीलया - अनायासेन, दंष्ट्राग्रेण [ वराहावतारसमये ] उदूढं पातालादानीतं, सकलं महीमण्डलं येन तस्यैव, ते तव, अद्य साम्प्रतम्, अङ्गे शरीरे, मृणालस्य - बिसस्याभरणमपि, कस्मात् अज्ञानात् हेतोः, गुरूयते भारकृद् भवति । तथा च किमपि विचित्रं कष्टं
wwwwww
www
२८५
For Private And Personal Use Only

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340