Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८४
सालङ्कारचूडामणी काव्यानुशासने
प्रबन्धेऽर्थशक्तिमूलो व्यङ्ग्यो यथा-गृध्रगोमायुसंवादे, तथा च
"
"अलं स्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसकुले । न चेह जीवितः कश्चित् कालधर्ममुपागतः ॥ ७८ ॥ [ म० भा० शा० प० अ० १५२. लो०-११] इति दिवा प्रभवतो गृध्रस्य पुरुषविसर्जनपरमिदं वचनम् । "आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत साम्प्रतम् । बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ॥ ७९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
"
सूत्रे "अर्थशक्तिमूलः प्रबन्धेऽपि" इत्युक्ततया पद-वाक्यगतमुदाहृत्य क्रमप्रां प्रबन्धगतं ध्वनिमुदाहर्तुमाह-प्रबन्धेऽर्थशक्तिमूलो व्यङ्गयो यथेति । अत्र
arre statsधिकः काव्यप्रकाशादिषु समुपलभ्यते, तथा हि- तत्रत्यः पाठः “भलं स्थिस्वा" इत्यर्धम्, ततः " कङ्कालबहुले घोरे सर्वप्राणिभयङ्करे" इति, पुनः " न चेह जीवितः" इत्यर्धस्यान्ते "प्रियो वा यदि वा द्वेष्यः, प्राणिनां गतिरीदृशी" इति, मृतं बालं सन्ध्यासमये इमशाने समानीतं दृष्ट्वा दिवस एव मृतमांसभक्षणसमर्थस्य रात्रान्धत्वादसमर्थस्य गृधस्य तद्बन्धुविसर्जनपरमिदं वाक्यम् । अस्मिन् गृध्रगोमायुङ्कले गृधैर्गोमायुभिश्च व्याप्ते, कङ्कालाःअस्थीनि, बहलाः आधिक्येन यत्रैवंभूते मृतमनुष्यास्थिपञ्जरपरिपूर्ण, अत एव घोरे दारुणे, अथ च सर्वप्राणिनां भयजनके - इमशाने प्रेतभूमौ स्थित्वा, अलं व्यर्थम् । ननु किञ्चित् कालं स्थित्वा परीक्ष्यते, कदाचिदयं बाल उज्जीवेदिति चेत् ? अत्राह - इह संसारे, कालधर्मे मृत्युम्, उपागतः प्राप्तः, कश्चिन्न जीवितः, स च प्रिय मित्रं वा भवतु, द्वेष्यः शत्रुर्वा भवतु, न तस्योज्जीवनं संभाव्यते, कुत इति चेत् ? अत्राह - प्राणिनां गतिरीदृशीति- प्राणिस्वभाव एवायम्-न कश्चित् तदतिक्रमणं कर्तुं समर्थः 'स्वभावो दुरतिक्रमः' इत्युक्तेः ॥
1
इत्थं गृध्रवचनविश्वासात् पूर्वतोऽपि त्यागस्यैव निश्चयाच्च त्यक्त्वा गन्तुमुद्यतेषु बन्धुषु दिवा गृध्राद्युपद्रवाद् रात्रावेव स्वातत्र्येण शवभक्षणसमर्थो गोमायुराहआदित्योऽयमित्यादि । मूढाः गृध्रवाक्येन प्रतारितत्वेनैवमुक्तिः अयं प्रत्यक्षं दृश्यमानः, आदित्यः स्थितः तथा च बहूनां भवतां दिवा किं भयमिति भावः, ततश्व साम्प्रतं यावदादित्यस्थितिस्तावत्, स्नेह कुरुत स्नेहानुरूपमस्यावेक्षणमाचरत । किमिह स्थित्वा फलमिति चेत् ? अयं सान्ध्यो मुहूतौ बहुविघ्नः
For Private And Personal Use Only

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340