Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 321
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९२ सालङ्कारचूडामणौ काव्यानुशासने परित्यक्तं सर्व हसितपठितं पञ्जरशुकैस्तवावस्था चेयं विसृज कठिने ! मानमधुना" ॥ ८४ ॥ [अ० श० श्लो.-७] अत्र न लिखतीति, अपि तु प्रसादपर्यन्तमास्त इति, तथा आस्त इति न त्वासित इति, भूमिमिति, न तु भूमाविति न हि बुद्धिपूर्वकं रूपकं किंचिल्लिखतीति स्यादि-त्यादि विभक्तीनां व्यञ्जकत्वम् । "अन्नत्थ वञ्च बालय! हायंति कीस मं पुलोएसि । एयं भो जायाभीरुयाण त्तहं चिय न होइ" ॥ ८५ ॥ [ ] तथा तव प्राणा इव सोऽप्यस्माकं रक्षणीय इत्यर्थः, ईदृशोऽपि, अवनतः नम्रः, भूमिं न तु भूमो, तेनाकासितस्य कर्मणोऽनुद्देश्यत्वं गम्यते, लिखन् शून्यहृदयतया बिलिखन् न तु लिखति, तेन लिखनस्याबुद्धिपूर्वकत्वेनाप्राधान्यं ध्वन्यते, आस्ते उपविष्टोऽस्ति, न तु आसीत् , तेनैवमवस्थानस्य प्रसादपर्यन्तस्थापिता धन्यते, तथा सख्यः सर्वा वयस्याः, निर्गत आहारो यासां तथाभूताः सत्यः, सततम्-अनारतं, रुदितेनोच्छूने-जातशोके, नयने-चक्षुषी यासां तथाभूताः, सन्तीति शेषः, तथा पारस्थैः शुकैः-कीरैः, हसितं पठितमन्यच्च सर्व भोजनादि परित्यक्तम् उज्झितम् । अज्ञानामपि तव कारणादीदृश्यवस्था किमस्माकमिति भावः, तव चेयमुत्तरोत्तरवर्धमानाऽसह्यपीडाजनिका, अवस्था दशा, जातेति शेषः, अतः, अधुना वसन्तचन्द्रकादिभिरुद्दामे मन्मथविलसिते सतीत्यर्थः, मानं विसृज विशेषेण त्यजेति भावः ॥ अत्र केषां किं किं व्यञ्जकत्वमित्याह-अत्र न लिखतीति अपि तु प्रसादपर्यन्तमास्त इत्यादिनालिखतीति कथनेन लेखनस्योद्देश्यत्वं विज्ञातं स्यादतो लिखन्निति शत्रन्तमुक्तं तेन चास्यानुद्देश्यता ध्वन्यत इत्यादि व्याख्यावसर एव वर्णितत्वेन व्याख्यातपूर्वमिति । एतावद्भिः सूचनै यकस्य मोहातिशयो व्यज्यते, तथा च विप्र. लम्भोत्कर्षो व्यङ्ग्य इति भावः॥ _ सम्बन्धस्य तद्धितप्रत्ययस्य च व्यञ्जकत्वमुदाहरति-अन्नत्थ वञ्चेति । "अन्यत्र बज बालक! नान्तीं कस्मात् मां प्रलोकसे । एतद्भो आयाभीरुकाणां वेषां [युष्माकं] एव न भवति ॥” इति संस्कृतम् , अत्र ध्वन्यालोके चतुर्थे For Private And Personal Use Only

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340