Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २५।
२९७
__ अत्र सम्यग्भूतमुपांशु कृत्वा आ समंताचरन्तमित्यनेन लोकानुजिघृक्षातिशयस्तत्तदाचरतः परमेश्वरस्य ध्वन्यते । - "रमणीयः क्षत्रियकुमार आसीत्" ॥ ९०॥ [महावीरचरिते]
इति
अत्र शङ्करधनुर्भङ्गभ्रवणात् प्रकुपितस्य भार्गवस्योक्त्या 'आसीत्' इत्यतीतकालनिर्देशाद् दाशरथेः कथाशेषत्वं व्यज्यते । यथा च प्रत्ययांशस्य द्योतकत्वं तथा प्रकृत्यंशस्यापि यथा"तद्गगेहं नतभित्ति मन्दिरमिदं लब्ध्वावकाशं दिवः
सा धेनुर्जरती नदन्ति करिणामेता घनाभा घटाः। इति पाठस्त्वसमीचीन इति 'योगीश्वरैरप्यसुबोधम्' इति पाठं ध्वन्यालोकादिटीकोद्धृतं कल्पयित्वा व्याख्यातमिदं पद्यम् । अत्रोपसर्गाणां व्यञ्जकत्वमाहसम्यग्भूतमित्यादिना, अयमाशयः-अत्र समुपाङामुपसर्गाणां सन्निपातः सम्यगुपांशु आ समन्ताद् मानवरूपेणेशाचरणमाभिदधञ्जन्तुसन्तानानुग्रहोत्कर्ष वस्तु तद्विषयकरतिभावं च व्यनक्तीति ।।
पदस्य व्यञ्जकत्वप्रसङ्गे उपसर्गनिपातादीनां व्यञ्जकत्वमुदाहृत्य पदांशस्य व्यञ्जकत्वमुदाहर्तुं तावत् पदांशस्य प्रत्ययस्य व्यञ्जकत्वमुदाहरति-रमणीयः क्षत्रियकुमार आसीदिति-महावीरचरिते द्वितीयसर्गे परशुरामोक्तिरियम् , शिवधनुर्भङ्गकुपितोऽसौ राममाकारयन् तमभिमुखमागच्छन्तं वीक्ष्य तत्रत्यान् श्रावयवाहेदम् । अत्र प्रत्ययांशेनातीतकालबोधकेन तस्य [ रामचन्द्रस्य ] कथाशेषत्वं बोधयता रौद्ररसः स्पष्टं व्यज्यते, मक्रोधकवलितस्यास्य क्षत्रियकुमारस्य रमणीयत्वमतीतं न तु वर्तमानं भविष्यद् वेति रूपेण क्षणादेनं संहरामीति प्रतीत्या क्रोधातिशयस्य व्यक्त्या रौद्ररसव्यक्तेः स्फुटावभासनात् ॥ - एवं प्रत्ययांशस्य द्योतकत्वमुक्त्वा प्रकृत्यंशस्य द्योतकत्वमुदाहर्तु भूमिकामाहयथा च प्रत्ययांशस्येत्यादिना । तद्नेहं नतभित्तीति-ध्वन्यालोके काव्यप्रकाशे च समुदाहृतमिदं पद्यम् , दरिद्रचरस्य सुदामनाम्नः कृष्णसखस्याकस्मि की सम्पदमवलोक्य कश्चिदाह-नता-जीर्णतया पतनोन्मुखी भित्तिर्यस्य तादृशं, तत् स्मृतिमात्रगोचरभूतं नकुलमूषकादिमृदाकीणं, गेहं, आसीदिति शेषः, इदानीं तु इदं मन्दिरं राजयोग्यगृहं, दिवः स्वर्गात् , लब्धोऽवकाशो यस्य
For Private And Personal Use Only

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340