Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 327
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९८ सालङ्कारचूडामणौ काव्यानुशासने स क्षुद्रो मुशलध्वनिः कलमिदं संगीतकं योषितामाश्चर्य दिवसैर्द्विजोऽयमियती भूर्ति परांप्रापितः” ॥९१॥ अत्र दिवसार्थनात्यन्तासंभाव्यमानताऽस्यार्थस्य ध्वन्यते, तदिति प्रकृत्यंशश्चाऽत्र नतभित्तीत्येतत्प्रकृत्यंशसहायः समस्तामङ्गलभूतां मूषिकाद्याकीर्णतां ध्वनति, एवं सा धेनुरित्यादावपि योज्यम् । तथा "रइकेलिहियनियंसणकरकिसलयरुद्धनयणजुयलस्स। रुदस्स तइयनयणं पव्वइपरिचुंबियं जयइ ।। ९२ ॥ [स० श० ४५५ गा० स०प० ५५] तादृशम् , लब्धावगाहमिति पाठे तु दिवः आकाशस्य लब्धोऽवगाहः-आलोडमं येन तादृशं, गगनचुम्बि इत्यर्थः, अस्तीति शेषः, सा स्मर्यमाणा, जरती प्रसवाद्ययोग्या, अकर्मण्या, धेनुः गौरासीत् , इदानीं तु घनाभाः मेघनीलाः, करिणां हस्तिनाम् , एताः पुरोवर्तमानाः, लक्ष्मीलक्षणभूताः, घटाः सङ्घटितपतयः, नदन्ति शब्दायन्ते, किञ्च स निःस्वतासूचकः, क्षुद्रः भल्पाचे व्यापारात् तुच्छः, मुसलध्वनिः मुसलेन धान्यकुट्टनजन्मा ध्वनिरासीत् , साम्प्रतं तु इदं श्रुतिविषयीक्रियमाणं, योषिताम् अङ्गनानां, कलं मधुरं, सङ्गीतकं समृद्धजनगृहशोभि गानं, भवतीति शेषः, अयं द्विजः सुदामा, दिवसः त्रिचतुरैरेव दिनैः, न तु पार्मासर्वा , इयती पूर्ववर्णितामनुपमां, पराम् उत्कृष्टां, भूर्ति समृद्धिं, प्रापित इत्याश्चर्यमित्यर्थः । अल्पीयसैव कालेनैतावान् विपर्यासः सम्भावनातिगोऽद्धतावह इति सारम् , व्यञ्जकतां प्रकटयति-अत्र दिवसार्थनेति-दिवसैरिति पदावयव दिवस'रूपप्रकृतिभागार्थेन मासादिव्यावर्तने कालाल्पता द्वारीकृत्य सम्पदोऽसम्भाव्यत्वेनाश्चर्यजनकतां व्यनक्ति, एवं तदिति सर्वनामरूपप्रकृत्यंशोऽपि नतभित्तीति प्रकृत्यंशेन सह गृहस्य समस्ता. मङ्गलस्वरूपां मूषिकादिजन्तुतस्कृतमृत्तिकादिचयविवरशताद्याकीर्णतां प्रकटयति, सा धेनुरित्यादावपि तदिति प्रकृत्यंशस्य तथैवार्थविशेषव्यञ्जकत्वं व्याख्येयमित्ति वृत्यर्थः ॥ प्रकृत्यंशस्य व्यञ्जकत्वप्रदर्शनप्रकरणे प्रकृत्यन्तरापेक्षया प्रकृतिविशेषस्य व्यञ्जकत्वमुदाहरति-रइकेलिहियेति-रतिकेलिहृतनिवसनकरकिसलयसहनयनयुग. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340