Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 325
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ काव्यानुशासने अत्राहो बतेत्यनेन श्लाघातिशयो ध्वन्यते । "मनुष्यवृत्त्या समुपाचरन्तं स्वबुद्धिसामान्यकृतानुमानाः । योगीश्वरैरद्य सुबोधमीशं त्वां बोद्भुमिच्छन्त्यबुधाः स्वतः" ॥ ८९ ॥ [ "सुराः समभ्यर्थयितार एते, कार्य त्रयाणामपि विष्टपानाम् । चापेन ते कर्म न चातिहिंस्रमहो बतासि स्पृहणीयवीर्यः ॥" [कु० सं० स० ३ श्लो० २०] तपस्यन्तं शिवं पार्वती प्रत्युन्मुखीकर्तुं कामदेवमुत्साहयन् देवेन्द्रस्तमालएते वदने दैन्येन स्थिताः, सुराः, समभ्यर्थयितारः न केवलमहमेव वामन कार्ये प्रवर्तयाम्यपि तु सर्वैः सुरैरभ्यर्थ्यते, तत्राऽपि न केवलं सर्वेषां सुराणामेव कार्यम् , अपि तु त्रयाणामपि विष्टपानां लोकानां कार्यम् , ते चापेन तव प्रसिढेन पौष्पेण धनुषा, कर्म तत् साध्यमिति शेषः, ननु भवतु नामोत्थं कार्यस्य महत्त्वमल्पायाससाध्यत्वं च, तथापि विनापराधं कमप्यहं कुतः कदर्थयामीति चेदत्राह-न चातिहिंस्रमिति-तत्र कर्मणि कस्यापि अतिशयिता प्राणवियोगादिजनिका हिंसा नास्तीति भावः, अन्ते प्ररोचनामाह-अहो बत महदाश्चर्य स्पृहणीयवीर्योऽसि स्पृहणीयम्-अन्यैः प्रातुमभिलषणीयं बीयं यस्य तादृशोऽसि । अत्र व्यङ्ग्यमाह-अहो बतेत्यनेन श्लाघातिशय इति-निपातद्वयमिदं क्रमेणाश्चर्यमामन्त्रणं चाभिदधानं मदनवीर्यस्यालौकिकत्वेन श्लाघां व्यञ्जयदद्भुतरसं प्रकाशयतीति ॥ .. निपातसमुदायस्य व्यञ्जकत्वमुदाहृत्योपसर्गसमुदायस्य व्यञ्जकत्वमुदाहरतिमनुष्यवृत्त्या समुपाचरन्तमिति । स्वबुद्धिसामान्यकृतानुमानाः स्वमतियोग्यतया कृतानुमितयः, अबुधाः वास्तविकतत्त्वज्ञानशून्या जनाःयोगीश्वरैः योगिषु श्रेष्ठेरपि, असुबोधं सुखेनावगमन्तुमशक्यं, मनुष्यवृत्त्या मानवोचिताचारेण, समुपाचरन्तं लोककल्याणाय, सम्यग् , उपांशु-अप्रकटितैश्वर्य यथा स्यात् तथा, समन्ताद् व्यवहरन्तम् ईशं परमेश्वरं, त्वाम् , कुतः [स्वतः] शास्त्रासहायैस्तकः, बोद्भुमिच्छन्ति, एतदेव तेषामबुधत्वमिति वा, तथा सति ये स्वबुद्धिसामान्यकृतानुमाना एवम्भूतं त्वां कु[स्व]तकैबौद्भुमिच्छन्ति तेऽबुधा इति योजनीयम् । अत्र वृत्तौ 'योगीश्वरैरद्य सुबोधम्' For Private And Personal Use Only

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340