Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 328
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० २५। अत्र जयतीति न तु शोभत इत्यादि । समानेऽपि हि स्थगनव्यापारे लोकोत्तरेणैव रूपेणास्य पिधानमिति तदेवोत्कृष्टमिति व्यज्यते । भावादीनां पदप्रकाशकत्वेऽधिकं न वैचित्र्यमिति न तदुदाह्नियते । वाक्यस्य रसादिव्यञ्जकत्वं रसादिलक्षण एवोदाहरिष्यते। प्रबन्धे च नाटकादावर्थशक्तिमूला रसव्यक्तिः प्रतीतैव, वर्णरचना लस्य । रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बित जयति ॥” इति संस्कृतम् , रुद्रस्य तृतीयनयनं ललाटस्थलोचनं, पार्वत्या गौर्या, परिचुम्बितं सत् , जयति, सर्वोत्कर्षेण वर्तते, कीदृशस्य रुद्रस्य ? रतिकेलौ-सुरतक्रीडायाम् , हृतं निवसनंपार्वतीसम्बन्धि परिधानवस्त्रं येन स चासौ करकिसलयाभ्यां-पाणिपल्लवाभ्यां, रुद्धं-पार्वत्या पिहितं, नयनयुगलं-नेत्र द्वन्द्वं यस्य तादृशश्च, तस्येति बहुव्रीहिद्वयगर्भः कर्मधारय समासः । अत्र 'शोभते' इत्यपेक्षया 'जयति' इत्यस्य प्रकृत्यंशेन जिधातुना समाजेऽपि स्थगनव्यापारे लोकातिगेन रूपेण [ करद्वयस्य नेत्रद्वयव्यापृतप्तया चुम्बनव्यापार-पिधानयोरेकेन मुखेनैव विहितप्तया हि तस्यालौकिकत्वम् ] तृतीयनेत्रस्य पिधानमिति तस्यान्यपिधानापेक्षया रागातिशय-हर्ष-लजादिसम्पादनमुखेनैव तस्योत्कृष्टत्वं व्यज्यत इति, तदुक्तं वृत्तौ-अत्र जयतीति न तु शोभते इत्यादीति । अत्र जयतीत्येव व्यञ्जकं, 'शोभते' इत्यादिपदैर्वर्ण्यमानोऽयमर्थो न तथा चमत्कारीति भावः ॥ रसादिश्चेति सूत्रे यद्यप्यादिपदेन ग्राह्याणां भावादीनामप्यर्थशक्तिमूलं व्यञ्जन पदगतमुदाहर गीयं तथापि तेषां पदप्रकाश्यत्वे चमत्काराभावान्नोदाहृतमित्याहभावादीनां पदप्रकाश्यत्व इति अधिकं न वैचित्र्यमिति-अधिकम्-उत्तम. काव्यत्वप्रयोजक, वैचित्र्यम्-अतिशयश्चमत्कारो वा न । नन्वस्तु भावादीनां पदप्रकाश्यानामनुदाहरणं समर्थितम् , रसस्य वाक्यप्रबन्धादिगतस्य प्रकाश्यत्वं [व्यङ्गयत्वं] नोदाहृतमिति न्यूनतेति चेत् ? अत्राह-वाक्यस्य रसादिव्यञ्जकत्वमिति रसादिलक्षणनिरूपणावसरे तदीयोदाहरणानि वाच्यानेव, रसस्य च व्यङ्गय त्वमेवेत्युक्तं प्राक्, तथा चैकत्रैव रसोदाहरणवाक्यगतरसव्यञ्जकतोदाहरणे प्रदर्शनीये इति लाघवानुरोधेनेह न तदुपन्यास इति भावः । प्रबन्धगतामर्थशक्तिमूलां रसादिव्यक्तिमिहानुदाहृत्य तदुदाहरणसरणिं दर्शयति-नाटका For Private And Personal Use Only

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340