Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 320
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० २५। २९१ पदैकदेशोऽपि पदं यथा "तालैः शिजवलयसुभगैर्नर्तितः कान्तया मे, यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः” ॥ ८३ ॥ [मे० दू० उ० श्लो-२६] अत्र तालैरिति बहुवचनमनेकभङ्गिवैदग्ध्यं ख्यापयद्विप्रलम्भमुद्दीपयति । "लिखन्नास्ते भूमि बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरुदितोच्छ्रननयनाः। तस्यार्थविशेषव्यञ्जकत्वमुदाहरति-तालैरित्यादि-मेघदूते यक्षेण स्वावासादिपरिचयदानपूर्वकं स्वगृहमध्यस्थितानामृद्धीनां वर्णनप्रसङ्गे पद्यमिदमुक्तम् , अयं चोत्तरार्धः, पूर्वार्धश्चेत्थम्-"तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिः, मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ।" इति, तयोः-रक्ताशोक-केसरवृक्षयोः, मध्ये, अनतिप्रौढानाम्-अपक्वानां, वंशानां-वेणूनां, प्रकाश:-कान्तिरिव कान्तियेषां तैः, मणिभिः-मरकतरलैः मूलेऽधोदेशे, बद्धा-संघटिता, स्फटिक-तन्मयं, फलक-पीठं यस्यास्तादृशी, काञ्चनी-सुवर्णमयी, वासयष्टिः, पक्षिणां कृते निवासदण्डः अस्तीति शेषः। शिञ्जन्तः-शब्दायमाना, ये वलयाः-कङ्कणानि, तैः सुभगाःरमणीया ये ताला:-अनेकविधकरतालवादनानि तैः, मे कान्तया [ का] बर्ततः,-नटनं कारितः, वः-युष्माकं मेधानां, सुहृद्-मित्रं, नीलकण्ठः-मयूरः, दिवसविग-दिनान्ते, यामध्यास्ते - यत्र यष्ट्यां निवसति सोऽपि ते परिचायक इति भावः । अत्र यच्छब्दस्योत्तरवाक्यगतत्वेन तच्छब्दापेक्षा । तालैरिति बहु. वचनस्याद्यन्तं तालानामनेकविधत्वख्यापनद्वारा यक्षपत्यास्तद्विज्ञतया संगीतागमनैपुण्यं द्योतयद्विप्रलम्भशृङ्गार व्यञ्जयति, तदाह-तालैरिति बहुवचनमित्यादिना ॥ __ स्यादि-त्यादिविभक्तीनां सम्भूय व्यञ्जकत्वमुदाहरति-लिखन्नास्ते भूमिमित्यादिना, बहुदिनव्यापिमानवतीं नायिकां प्रति सख्या उक्तिरियम्-हे कठिने ! निर्दये!, तव प्राणानां दयितः-प्रियः, एतेन दयितदुःखेन त्वत्प्राणा अघि दुःखिता भविष्यन्तीति ध्वन्यते, अथवा तव प्राणा इव सोऽपि दयितोऽस्माकं, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340