Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- सालङ्कारचूडामणौ काव्यानुशासने
त्याद्यन्ते यथा
"मा पंथं रुंध महं अवेहि बालय! अहो सि अहिरीओ। अम्हे अणिरिकाओ सुण्णहरं रक्खियव्वं ण्णो" ॥ ८२ ॥
[स० श० ९६१] अत्रापेहीति त्याद्यन्तम् । त्वं तावदप्रौढोलोकमध्ये यदेवं प्रकाशयसि, अस्ति तु संकेतस्थानं शून्यगृहं तत्रैवागन्तव्यमिति ध्वनति ।
प्रियायाः-जानक्याः, दृष्टिपाता:-कटाक्षविक्षेपाः, पवनेन-वायुना, विलुलितानांतरलितानाम् , उत्पलाना-नीलकमलानां, पलाशप्रकर-दलसमूह, किरन्तःपरितो विक्षिपन्त इव, स्मर्यमाणाः विरहदशायामिदानी स्मृतिविषयतामापद्यमानाः, दहन्ति-मां तापयन्तीत्यर्थः । इहापि 'ते' इति पदमनुभूतस्मारकतया विप्रलम्भशृंगारव्याकम् ॥
स्याद्यन्तं पदं व्यञ्जकमुदाहृत्य त्याद्यन्तमुदाहरति-त्याद्यन्ते यथेति । मा पंथं रुंधेति "मा पन्थानं रुन्धि अपेहि बालक! अहो असि अहीकः । वयं परतन्त्राः शून्यगृहं रक्षणीयमस्माकम् ॥” इति संस्कृतम् , पन्थान रुन्धन्त कान्तं भङ्गया सङ्केतस्थलं सूचयन्ती कृत्रिमरोषाविष्टा काचिदाचष्टे-बालक! प्रोठिमनापन्न !, अविवेकिन्निति यावत् , अपेहि मार्गाद् दूरे व्रज, पन्थानं मद्गमनमार्ग, मा रुन्धि नावरुद्धं कुरु, अहो आश्चर्यम् , अह्रीका जनसमाजेऽपि धाष्ट्य विधानानिर्लज्जस्त्वमसि, वयं परतन्त्राः स्मः, यतो नः अस्माकं, शून्यं साक्ष्यन्तररहित, गृहं रक्षितव्यं चारादिभ्यः पालनीयं वर्त्तते, इत्यर्थः । अत्र परस्परसापेक्षं वाक्यपञ्चकम् 'भपेहि' इति त्याद्यन्तेन प्रधानेन सह सम्भूय । अप्रौढत्वात् तरलस्त्वमसि, यदीत्थं पथि लोकानां समक्षमेव रहस्यं प्रकाशयितुं चेष्टसे अस्त्येव निर्जनत्वात् संकेतोचितं मे गृहं, तत्रैव निभृतमागत्य स्वमनोरथं पूरय, अलमिदानीमतिप्रसङ्गेनेत्यादि सूच्यते, तत्र मुख्यं व्यञ्जकमपेहीति, तदाह-अत्रापेहीति त्याद्यन्तसिति-व्यञ्जकमिति शेषः । किं व्यञ्जयतीत्याह-त्वं तावदप्रौढ इत्यादिना । पदैकदेशस्य पदावयवस्य स्यादेरपि पदप्रयोजकत्वेन पदत्वमिति
For Private And Personal Use Only

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340