SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - सालङ्कारचूडामणौ काव्यानुशासने त्याद्यन्ते यथा "मा पंथं रुंध महं अवेहि बालय! अहो सि अहिरीओ। अम्हे अणिरिकाओ सुण्णहरं रक्खियव्वं ण्णो" ॥ ८२ ॥ [स० श० ९६१] अत्रापेहीति त्याद्यन्तम् । त्वं तावदप्रौढोलोकमध्ये यदेवं प्रकाशयसि, अस्ति तु संकेतस्थानं शून्यगृहं तत्रैवागन्तव्यमिति ध्वनति । प्रियायाः-जानक्याः, दृष्टिपाता:-कटाक्षविक्षेपाः, पवनेन-वायुना, विलुलितानांतरलितानाम् , उत्पलाना-नीलकमलानां, पलाशप्रकर-दलसमूह, किरन्तःपरितो विक्षिपन्त इव, स्मर्यमाणाः विरहदशायामिदानी स्मृतिविषयतामापद्यमानाः, दहन्ति-मां तापयन्तीत्यर्थः । इहापि 'ते' इति पदमनुभूतस्मारकतया विप्रलम्भशृंगारव्याकम् ॥ स्याद्यन्तं पदं व्यञ्जकमुदाहृत्य त्याद्यन्तमुदाहरति-त्याद्यन्ते यथेति । मा पंथं रुंधेति "मा पन्थानं रुन्धि अपेहि बालक! अहो असि अहीकः । वयं परतन्त्राः शून्यगृहं रक्षणीयमस्माकम् ॥” इति संस्कृतम् , पन्थान रुन्धन्त कान्तं भङ्गया सङ्केतस्थलं सूचयन्ती कृत्रिमरोषाविष्टा काचिदाचष्टे-बालक! प्रोठिमनापन्न !, अविवेकिन्निति यावत् , अपेहि मार्गाद् दूरे व्रज, पन्थानं मद्गमनमार्ग, मा रुन्धि नावरुद्धं कुरु, अहो आश्चर्यम् , अह्रीका जनसमाजेऽपि धाष्ट्य विधानानिर्लज्जस्त्वमसि, वयं परतन्त्राः स्मः, यतो नः अस्माकं, शून्यं साक्ष्यन्तररहित, गृहं रक्षितव्यं चारादिभ्यः पालनीयं वर्त्तते, इत्यर्थः । अत्र परस्परसापेक्षं वाक्यपञ्चकम् 'भपेहि' इति त्याद्यन्तेन प्रधानेन सह सम्भूय । अप्रौढत्वात् तरलस्त्वमसि, यदीत्थं पथि लोकानां समक्षमेव रहस्यं प्रकाशयितुं चेष्टसे अस्त्येव निर्जनत्वात् संकेतोचितं मे गृहं, तत्रैव निभृतमागत्य स्वमनोरथं पूरय, अलमिदानीमतिप्रसङ्गेनेत्यादि सूच्यते, तत्र मुख्यं व्यञ्जकमपेहीति, तदाह-अत्रापेहीति त्याद्यन्तसिति-व्यञ्जकमिति शेषः । किं व्यञ्जयतीत्याह-त्वं तावदप्रौढ इत्यादिना । पदैकदेशस्य पदावयवस्य स्यादेरपि पदप्रयोजकत्वेन पदत्वमिति For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy