________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २५ ।
२८९
भूतस्य जनस्य ये भ्रक्षेपकटाक्षप्रभृतयः पूर्व रतिनिभावतामवलम्ब्य तदुद्दीपका आसन् , त एवात्यन्तविनष्टाः सन्तः पश्चात् स्मृतिगोचरतामागता निरपेक्षत्वभावप्राणं करुणरसमुद्दीपयन्तीति वस्तुस्थितिः। तथा च ते लोचने' इत्यत्र तच्छदस्तल्लोचनगतस्वमात्रानुभूताव्यपदेश्यानन्तगुणगणस्मरणाकारद्योतकः शोकरसव्यञ्जनस्थाधारणनिमित्ततां प्राप्तः । तथा च प्रक्रान्तपरामर्शकस्य तच्छब्दस्य कथमियान् व्यापारो यदीममर्थ द्योतयेदिति यदुक्तं केनचित् , तच्च रसाविष्टोऽत्र परामृष्ट इति रीत्या प्रत्युक्तं चान्येन, तदुभयमपि निरालम्बनमेव, यतश्च स्मरणाकारद्योतकतया तस्येह प्रयोग इति व्याख्यातम् , पत्र च यच्छब्देन वस्तुनोऽनिर्दिश्यमानधर्मान्तरसाहित्यरूपधर्मसम्बन्धित्वमभिधाय तच्छब्देन बुद्धिस्थतद्धर्मा [अनिर्दिश्यमानधर्मा ] न्तरसाहित्यं निर्वाह्यते तत्रैव तस्य पूर्वप्रक्रान्तपरामर्शकत्वम् , इह च न तथेत्यावेदितमेव, अत्र हि निमित्तोपनत [ उद्बोधकसमवधानोझुद्धसंस्कारप्रसूत ] स्मरणविशेषाकारसूचकत्वं तच्छब्दस्य, यथा-'स घट' इत्यादाविति का परामर्श कथा । अत्र चोत्कम्पिनीत्यादिविशेषणानि तदीयभयानुभावोत्प्रेक्षणरूपेण मया प्रतीकारो न निर्वाहित इति रीत्या शोकावेगस्य विभावतां गतानि । 'ते' इति सातिशयविभ्रमैकायतनरूपे लोचने कान्दिशीकतया निर्लक्ष्ये क्षिपन्ती 'कस्त्राता क्वासावार्य पुनः' इति तयोर्लोचनयोस्तादृशावस्थास्मरणं सुतरां शोकोद्दीपनमिति तस्यैव मुख्यं व्यञ्जकत्वम् ।।
पदगतं रसव्यञ्जकत्वमुदाहरन् “तदन्तं पदम्" [१. १. २०.] इति सूत्रेण स्यौद्यन्त-त्याद्यन्तयोः पदसंज्ञाया विहितत्वेन पूर्वोपस्थितं स्याद्यन्तं पदं व्यञ्जकतया "उत्कम्पिनी" इति पद्ये उदाजहार । तत्र स्मरणद्योतकपदाभावेन प्रक्रान्चपरामर्षकत्वं तच्छब्दस्य न तु स्मरणोपस्थापकत्वमिति विवदमानां सन्तोषाय विवेके पद्यान्तरमप्युदाहृतम् , तथा हि-"झगिति कनकचित्रे तत्र दृष्टे कुरङ्गे, रभसविकसितास्ते दृष्टिपाताः प्रियायाः । पवनविलुलितानामुत्पलानां पलाश-प्रकरमिव किरन्तः स्मर्यमाणा दहन्ति ॥” इति रामः सीतायां हृतायां तां स्मरबाहतत्र-पञ्चवळ्यां, कनकचित्रे-कनकवत् चित्रे-आश्चर्यकारिणि, कनकेन-हिरण्ये न चित्रे-कर्बुरे वा, कुरङ्गे-मृगे, दृष्टे-अवलोकिते सति, झगिति-शीघ्र, रभसेनवेगेन हर्षेण वा, विकसिताः-प्रफुल्लाः प्रसृता वा, ते अनुभूतिमात्रविषयाः,
का० १९
For Private And Personal Use Only