________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८
सालङ्कारचूडामणौ काव्यानुशासने
न तु कदाचिद्वाच्यतामपि सहन्त इति रसादीनां प्राधान्यख्यापनार्थः । वस्त्वलङ्कारौ हि वाच्यावपि भवत इति ।
तत्रार्थशक्तिमूलो व्यङ्गयो रसः पदे यथा"उत्कम्पिनी भयपरिस्खलितांशुकान्ता
ते लोचने प्रतिदिशं विधुरे क्षिपन्ती । तीक्ष्णेन दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि" ॥ ८१ ॥
[स्व० वा० ना०] अत्र 'ते' इति पदेन स्मारितानामनुभवैकगोचराणां सातिशयभ्रमाणां शोकव्यञ्जकत्वम् । वाच्यतासहान् शिष्या न प्रतिपद्यरन्नित्यर्थं तेषां प्राधान्यद्योतकमिदं पृथक् सूत्रमिति ॥
पदगतमर्थशक्तिमूलं रसध्वनिमुदाहर्तुमवतरणमाह-तत्रार्थशक्तिमूल इत्या. दिना । उत्कम्पिनीति-स्वमवासवदत्ते नाटके वत्सराजो यौगन्धरायणेन मन्त्रिणा वासवदत्ता दग्धेति ख्यापिते सति कदाचिदेकान्ते तां स्मृत्वैवं विलपति अयि प्रेयसि ! भावानीतामित्यं सम्बोध्यैव मध्यमपुरुषेणाभिधानं संभाव्यते । उत्कम्पिनीत्रासात् समुद्भूतकम्पा, भयेन परिस्खलितः-परिभ्रष्टः, अंशुकस्यवस्त्रस्य, अन्त:-अग्रभाग उपरितनाङ्गावरणतया स्थापितो यस्याः सा तथा, एतेन चाग्निज्वालायाः साक्षादेव सम्पर्कः सम्भावितः, ते मदनुभवगोचरीभूततत्तद्वि. लासशीले कथमपि विस्मर्तुमनहें, विधुरे रक्षणोपायानुपलम्भाद् विकले कातरे वा लोचने, प्रतिदिशं कश्चिन्मां कुतश्चिदागत्य त्रास्यतीत्याशयात् सर्वासु दिक्षु, क्षिपन्ती प्रेरयन्ती, तीक्ष्णेन समिद्धतमेन, दहनेन दाहकेन वह्निना, दारुणतया निष्करुणत्वेन, सहसा अविचार्य, दग्धा भस्मीकृतासि, किन्तु, धूमान्धितेन तेन न वीक्षितासि, यतोऽसौ स्वकारणादेव समुद्भूतेन धूमेनान्धितोऽत एव तेन अवीक्ष्यैव सहसा दग्धा, नो चेत् ? दृष्ट्वा तदवस्थां त्वां स कूरोऽपि दग्धुं न प्रवर्ततेति भावः । अत्र केन पदेन कथं को रसो व्यज्यत इत्याह-अत्र 'ते' इति पदेनेत्यादि-अत्र 'ते' इति पदं स्फुटं रसमयत्वेनावभासते सहृदयानाम् , तथा हि-शोको नामेष्टजनविनाशप्रभव इति तदालम्बन
For Private And Personal Use Only